________________
तृतीयमाह्निकम् उपमानानन्तरं शब्दस्य विभागसूत्रे निर्देशात् तस्य लक्षणं प्रतिपादयितुमाह है
आप्तोपदेशः शब्दः ॥ ७ ॥ उपदेशः शब्द इत्युच्यमाने पर्यायमात्रोच्चारणादकारके शब्दमात्रै प्रसक्तिरिति प्रत्यक्षसूत्राज ज्ञानपदस्य, स्मृतिजनकस्य व्यवच्छेदार्थं चार्थग्रहणस्य, संशय- * विपर्ययजनक निराकरणाय च व्यवसायात्मकाव्यभिचारिपदयोरनुवृत्तिरित्येवम- " व्यभिचारादिविशेषणार्थप्रतीतिजनक उपदेशः शब्द इत्युक्तं भवति ।
तदेवं पर्यायमेवोपदेशशब्दं शब्दलक्षणमपेक्षितपूर्वसूत्रोपात्तविशेषणपदं केचिद् व्याचक्षते, आप्तग्रहणञ्चलक्षणविनिश्चयार्थमाहुः। 'घ्राणरसनत्वक्चक्षुःश्रोत्राणीन्द्रियाणि भूतेभ्यः' इत्यत्र भूतग्रहणं वक्ष्यते । एवं हि ऐतिह्यस्य न प्रमाणान्तरता 10 भविष्यति, उपदेशरूपत्वाविशेषादिति ।
अन्ये तु ब्रुवते युक्तमुपदेशपदमेय शब्दलक्षणम् ।युक्तञ्च तन्निश्चयार्थमाप्तग्रहणम्। पूर्वसूत्रोपात्तविशेषणपदानुवृत्तिस्तु नोपयुज्यते, सामान्यलक्षणानन्तरं विशेषलक्षणप्रक्रमात्। सामान्यलक्षणेन च स्मृत्यादिजनकसकलप्रमाणाभासव्युदासे कृते सजातीय
लक्षणविनिश्चयार्थमिति । अव्यभिचारादिविशिष्टार्थोपलब्धिजनकत्वं प्रमाणलक्ष- है णम् । तद् दृष्टे विषये उपदेशस्य प्रमाणान्तरसंवादसम्भवान्निश्चीयेतापि, अदृष्टे तु विषये प्रमाणान्तरसंवादासम्भवात् कथं तद्विनिश्चय इति तदर्थमाप्तग्रहणम् । आप्तस्योपदेशो दृष्टे विषयेऽव्यभिचारादिविशेषणार्थोपलब्धिजनकत्वेन दृष्टः, अदृष्टेऽप्याप्तोपदेशरूपत्वात् तथाविधो भवत्येवेति । यथा नियतगन्धाधुपलब्धिजनकत्वं लक्षणं घ्राणादीनां कथं विनिश्चीयेतेति तद्विनिश्चयार्थं 'भूतेभ्यः' इति पदम् । विशिष्टभूतप्रकृतिकत्वाद् भवति नियतार्थोप- 20 लब्धिजनकत्वं लक्षणमिति । एवं हि ऐतिह्यस्येति । 'इह वटे यक्षः प्रतिवसति' एतदुपदेशरूपं न त्वाप्तोपदेशः, एतदुपदेष्टुराप्तस्यानिर्ज्ञानात् ।
२८