________________
२१६.
[द्वितीयम
न्यायमञ्जयां भवति तु मतिरेषा व्रीहयस्तत्सदृक्षा इति न च फलमस्याः किञ्चिदस्ति प्रतीतेः॥ भवत्यङ्गं यागे क्वचन गवयालम्भनमतः तदाकारज्ञाने प्रतिनिधिविवेके च कृतिनाम् । उपायत्वं युष्मत्कथितमुपमानं न भजते परिग्राह्यं तस्मात् प्रवरमुनिगीतं सुमतिभिः ॥
इति द्वितीयमाह्निकम् ॥
भवदुपमानाद् ‘ब्रीहिसदृशा नीवाराः' इति सादृश्यबुद्धिः। कीदृशी तर्हि बुद्धि रित्याह भवति नु मतिरेषेति ॥
भट्ठश्रीशङ्करात्मजश्रीचक्रधरकृते न्यायमञ्जरी ग्रन्थिभङ्गे द्वितीयमाह्निकम् ॥