________________
२१५
आह्निकम् ]
प्रमाणप्रकरणम् प्रतिनिधिरपि चैवं व्रीहिसादृश्ययोगाद् भवति तदपचारे यत्र नीवारजातो। तदपि फलमभीष्टं लक्षणस्योपमायाः
प्रकृतिरपि च गौणर्बाध्यते यत्र चान्यः॥ तदेतदसमञ्जसम् । प्रसिद्धनाप्रसिद्धस्य सादृश्यमवगम्यते इत्येष भवद्भिरु- 5 त्सृष्टः पन्थाः, विपर्ययस्तु आश्रितः । यदप्यदृष्टेन नूतनेनाप्रसिद्धन गवयेन वाक्यसिद्धस्य गोः सादृश्यमुपमानात् प्रतीयते इति तदिहापि निर्मातेतिकर्तव्यताकेन गोवत्प्रसिद्धनाग्नेयेन सौर्यस्य गवयवदप्रसिद्धस्य सादृश्यमवगम्यते, न तु गवयेन गोः सौर्येणाग्नेयस्य । तदिह यस्य विध्यन्तार्थिता न तत्रोपमानात् सादृश्यावगमः, पत्र वा तदवगमो न तत्रेतिकर्तव्यताथित्वम् ।
10 ननु सौर्ये विध्यन्ताथिनि प्रतीयमाने द्रव्यदेवतासारूप्याराग्नेयः स्मरणपथमवतरतीति तत एवासौ विध्यन्तमधिगच्छतीति। एवमपि स्मरणमात्रासिद्धेऽर्थे किमुपमानेन ? आग्नेयस्मरणादेव तदितिकर्तव्यता सौर्य उपादास्यते। स्मृतिविशेष एव विषयाधिक्यादुपमानमुच्यते इति चेत्, प्रतिविहितमिदमित्यलं प्रसङ्गन।
किञ्चोपमानप्रतिपादितार्थों न चोदनालक्षणतां बित्ति । तस्मान्न युज्येत ततोऽधिगन्तुमाग्नेयविध्यन्तविशेषलाभः ।। प्रतिनिधिरपि चैवं नास्ति नीवारजातेनहि भववुपमानाद् व्रीहिसादृश्यबुद्धिः ।
20
___तदपचारे तेषां ब्रीह्यादीनां विहितानामपचारे परिहारादिकृते 'असम्भवे प्रतिनिधि:' इति । नीवारजातौ नीवारजातेः । प्रतिनिधिमुख्यस्थाने विनियोगः ।
प्रतिविहितमिदमिति । 'मैवं, गवयसादृश्यस्यापि पूर्व ग्रहणात्' इत्यादिना प्रतिविधानात् ।
प्रतिनिधिरपि चवं नास्ति नीवारजातेः। कथं नास्ति ? तदाह न हि 25