________________
२१४ न्यायमञ्जऱ्या
[द्वितीयम् ननूक्त एवोपयोगः। सौर्ये चरौ द्रव्यदेवतासारूप्यादाग्नेयविध्यन्तलाभः । आग्नेयोऽष्टाकपाल इत्युपदिष्टादृष्टेतिकर्तव्यताकलापतया निराकाङ्क्षो विधिः । 'सौर्य चरुं निर्वपेद् ब्रह्मवर्चसकामः' इत्यत्र प्रधानमात्रोपदेशाद् विध्यादिरस्ति न तु विध्यन्त इतिकर्तव्यताभिधानम्। न चानितिकर्तव्यताकं कर्म प्रयोगयोग्यम् । अतः कोदशमितिकर्तव्यताजातमिह गृह्यतामित्यपेक्षायां चरुपुरोडाशयो ह्याद्यौषधिसाधनत्वेन द्रव्यसादृश्यात् सूर्याग्न्योश्च तेजस्वितया देवतयोः सारूप्यादाग्नेयेतिकर्त्तव्यता सौर्ये क्रियते इत्युपमानाद् गम्यते । अपि च क्वचिच्चोदितद्रव्यादावलभ्यमाने प्रतिनिध्युपादानेन कर्मसमापनात् प्रतिनिधिमात्रोपादाने प्राप्ते व्रीहिसदृशनीवारोपादानमुपमानात् प्रतीयते इति । तदाह
भिन्नानुमानादुपमेयमुक्ता सौर्यादिवाक्यैरसहापि दृष्टम् । सादृश्यतोऽग्न्यादियुतं कथं नु प्रत्याययेदित्युपयुज्यते नः॥
आग्नेयोऽष्टाकपाल इति। अयं हि दर्शपूर्णमासप्रधानयागषट्कान्तःपातित्वाद् । विहितसकलेतिकर्तव्यताकः। विध्यादिरस्तीति । यद्वाक्यमुपलभ्य पुरुषः कस्मिंश्चिदर्थे
प्रवर्तते कुतश्चिद् विनिवर्तते स विधिः । विधीयतेऽनेनार्थ इति । यथा लोके 'देवदत्त गामभ्याज शुक्लाम्' इति । तस्य 'अभ्याज' इति आदिः, इतरोऽन्तः । वेदेऽपि 'दर्शपूर्णमासाभ्यां यजेत' इति विध्यादिः, विध्यन्तोऽप्रधानविजितं कृत्स्नं पौरोडाशिकं ब्राह्मणम् । तेन
सहितोऽयं विध्यादिविशिष्टापूर्वनिर्वृत्तं प्रति पुरुषं प्रवर्तयति इति विध्यादिविध्यन्त20 योर्लक्षणम्।
भिन्नानुमानादुपमेयमुक्तेति । अग्न्यादियुतं 'आग्नेयोऽष्टाकपालो भवति' इत्यादिसम्बद्धं यत् प्रयाजादिकमितिकर्तव्यताजातम् । सौर्यादिवाक्यैः ‘सौर्यं चरु निर्वपेद् ब्रह्मवर्चसकामः' इत्यादिभिः। असहापि दृष्टम् । तैः सहाश्रुतमपि, तद्गतत्वेन कथं
प्रत्याययेदुपमेति नोऽस्माकमुपयुज्यते । कथञ्च प्रत्याययितुं शवनुयादित्याह सादृश्यतः । 25 तत्सदृशत्वादाग्नेयादेः।