________________
प्रमाणप्रकरणम्
आह्निकम् ]
२१३ नैतदस्ति, गवयग्राहिणा प्रत्यक्षेणैव तत्स्पष्टतासिद्धः। यथा भवद्भिर्नैयायिका उक्ताः 'अथ त्वधिकता काचित् प्रत्यक्षादेव सा भवेत्' इति तथा नैयायिका अपि युष्मान् वक्ष्यन्ति।
ननु वनस्थप्रमातुर्गवयविषयं प्रत्यक्षं कथं ग्रामवत्तिनि गवि सादृश्यबुद्धः स्पष्टतामादधीत ? किं कुर्मस्तद्दर्शनानन्तरं सुस्पष्टतत्सादृश्यविशिष्टगोपिण्ड- : स्मरणात्।
नन्वत एवेदमुपमानं प्रमाणान्तरमुच्यते, प्रत्यक्षस्य सन्निहितगवयस्वरूपमात्रनिष्ठत्वात् । परोक्षे च गवयसादृश्यप्रत्ययस्य विस्पष्टस्यान्यतोऽसिद्धेरिति । उक्तमत्र स्मृतिरेवेयं तथावभासनात्, अनधिगतार्थप्राहि च प्रमाणमुपगच्छन्ति भवन्तः । भवतु स्मृतिविलक्षणेयं प्रतीतिः तथाप्यनुमानजन्यत्वान्न प्रमाणान्तरमाविशति, 10 स्मर्यमाणो गौः धर्मी, एतत्सदृश इति साध्यो धर्मः, एतदवयवसामान्ययोगित्वात्, सन्निहितद्वितीयगवयपिण्डवत् । तदसन्निधाने सामान्येन व्याप्तिदर्शयितव्या यत्र यदवयवसामान्ययोगित्वं तत्र तत्सादृश्यं यथा यमयोरिति । विशिष्टस्य तद्योगस्य हेतुत्वान्नानकान्तिकत्वम्,सामान्ययोगोऽन्योऽन्यच्च सादृश्यमित्युक्तत्वान्न प्रतिज्ञार्थंकदेशो हेतुः । अव्युत्पन्नस्य नारिकेलद्वीपवासिनो, बालस्य वा तत्प्रत्ययानुत्पादान्न 15 व्याप्तिनरपेक्ष्येण सा प्रतीतिरिति वक्तव्यम् । तस्मादित्थमनुमानजन्यत्वात्, स्मृतित्वाद्वा, पूर्वोक्तादसम्भवादेव वा नेयमवगतिरुपमानकार्येति सिद्धम् । मीमांसकमतसिद्धोपमानस्य न स्वातन्त्र्येनोपयोगः कश्चास्य भवदुपमानस्य स्वतन्त्रोपयोगः ? एवं ह्याहुभवन्तः अपरीक्षामिषेणापि लक्षणानि वदन्नयम् ।
20 न स्वतन्त्रोपयोगित्वनिरपेक्षाणि जल्पति । 'अथ त्वधिकता काचित्' इत्यस्योत्तरमर्धम् . 'यावद्धीन्द्रियसम्बद्धं तत् प्रत्यक्षमिति स्थितम्' इति ।
___यमयोरिति । युगपदेकस्मिन् गर्भे सम्भूतौ यमौ । सामान्ययोगोऽन्योऽन्यच्चेति । सत्यपि सामान्ययोगे प्राण्थन्तरेषु सदृशप्रत्ययानुत्पादात् ।।
अपरीक्षामिषेणापीति । न परीक्षितव्यानि प्रत्यक्षादीनि प्रमाणानीति मिर्षण व्याजेन।