________________
२१२
न्यायमञ्ज
[ द्वितीयम् यम् । तथा हि प्रतीतिः 'अनेन सदृशो गौर्मया नगरे दृष्टः' इति, नत्वी तत्सदृशो गौदृश्यते इति बुद्धिः।
ननु प्रतियोगिग्रहणाद् विना कथं ग्राम्यस्य सादृश्य ग्रहणम् अत्रभवतैवात्मनः प्रतिकूलमभिहितम् ?
सामान्यवच्च सादृश्यमेककत्र समाप्यते ।
प्रतियोगिन्यदृष्टेऽपि तस्मात्तदुपलभ्यते ॥ इति । स च भूयोऽवयवसामान्ययोगोऽगृहीतगवयेनापि नागरकेण ग्रहीतुं शक्यते ।
अथ तदा तद्ग्रहणेऽपि सति न तस्य सदृशप्रत्ययः। न तहि भूयोऽवयवसामान्ययोगः सादृश्यम् । यथोक्तं सादृश्यं सदृशप्रत्ययहेतुत्वमेव सादृश्यम्, भूयोऽ10 वयवसामान्ययोगे च तल्लक्षणे चित्रादावव्याप्तिः, अतिव्याप्तिश्च प्राण्यन्तरेषु
विसदृशेष्वपि तदवयवसामान्यानां खुरादीनां भावात् । भूयस्त्वन्तु कियत्तेषामिति न विद्मः । यावता सदृशप्रत्ययोत्पत्तिरिति चेत्, तहि सदृशप्रत्ययहेतुत्वमेव सादृश्यमस्त्वित्युक्तम् । तस्माद् गवयदर्शनात् पूर्वमपि गव्यनभिव्यक्तसादृश्यग्रहणोपपत्तेः स्मृतिरेवेयम्।
अथ मतं यथा नैयायिकानामतिदेशवाक्यवेलायां सोपप्लवा संज्ञासंज्ञिसम्बन्धबुद्धिरुपमानं निरुपप्लवीभवति एवमियमपि यासौ पूर्व व्यक्तितिरस्कृता . गवि गवयसादृश्यबुद्धिरभूत् स इदानीमुपमानाद् व्यक्तीभविष्यतीति
अत्रभवतैवात्मनः प्रतिकूलमभिहितमिति । भूयोऽवयवसामान्ययोगो यद्यपि मन्मते । सादृश्यं तस्य तु ज्ञप्तिगृहीते प्रतियोगिनि ॥
इति वदता भवता सादृश्यस्य सत्त्वं तावदभ्युपगतम्, ग्रहणन्तु सामान्यवद् भविष्यतीत्येतदेव ‘सामान्यवच्च' इत्यादिना व्यक्तीकृतम्। भूयोऽवयवसामान्ययोगस्य सादृश्यलक्षणस्य इष्टतामासेव्य प्रभाकरेण तल्लक्षणं कृतम् “सादृश्यमिति सादृश्यम्" 'सादृश्यम् अनेनास्य', 'अमुना सदृशोऽयम्' इति यतो बुद्धिरुत्पद्यते तत् सादृश्यम् ।
चित्रादावव्याप्तिरिति । चित्रे रेखारूपे हि न खुरत्वादिसम्भवः, प्राणिस्थखुराद्यवयवव्यङ्ग्यत्वात् तेषां खुरत्वादीनाम् ।
25.