________________
प्रमाणप्रकरणम्
आह्निकम् ]
२११ भावात्, अगृहीतस्य च लिङ्गत्त्वानुपपत्तेः । गवयगतमपि तदलिङ्गमेव पूर्ववदपक्षधर्मत्वात् । तस्माद् गवयसादृश्यविशेषितनगरगतपरोक्षगोपिण्डज्ञानं काननवत्तिनः प्रमातुः प्रमाणान्तरं भवतीत्यभ्युपगन्तव्यम् । तत्रानुपपत्तिप्रदर्शनम् तदिदमनुपपन्नम्, एवंविधप्रतीत्यभावात् ।
प्रसिद्धन हि सादृश्यमप्रसिद्धस्य गम्यते ।
गवा गवयपिण्डस्य न तु युक्तो विपर्ययः ॥ तथा हि, अश्रुतातिदेशको नागरकः कानने परिभ्रमन् अदृष्टपूर्वं गोसदृशं प्राणिनमुपलभमान एवं बुद्धयते ब्रवीति च 'अहो नु गवा सदृश एष कश्चन प्राणी'ति, न त्वनेन सदृशो गौरिति ज्ञानमभिधानं वा तदानी कस्यचिदस्तीति । अतः प्रमिते- 10 रेवाभावात् किं प्रमाणचिन्तया ? भवतु वैषा बुद्धिरनेन सदृशो गौरिति तथापि स्मृतित्वान्न प्रमाणफलम्।
नन्वत्र गोपिण्डमात्र सत्यं स्मृतिरेवंषा, सम्प्रत्यवगतगवयसादृश्यविशिष्टत्वन्तु तस्य पूर्वमनुपलब्धमधुनैव गम्यते इति न तस्मिन्नेषा स्मृतिः। मैवम् । गवयसादृश्यस्यापि तत्र पूर्व ग्रहणात्।
नन्वनवगतगवयेन गवि गवयसादृश्यमवगतमिति चित्रम्, व्यक्तितिरस्कृतस्य ग्रहणात्।
नन्विदमपि चित्रतरं गृहीतञ्च व्यक्तितिरस्कृतञ्चेति । व्यक्तिहि ग्रहणमेव ततिरस्कारे च नास्त्येव ग्रहणम्। उच्यते। नैतदपि चित्रतरम्।तथाहि वने गवयमालोक्य नागरको, न करेणुमनुस्मरति नकरभं, नतुरङ्गम्, अपितु विशिष्टमेव पिण्डम्। 20 न च निर्निबन्धनमेवेदं विशिष्टविषयस्मरणमुत्पत्तुमर्हति। तस्माद् यत्रैव परिदृश्यमानपिण्डसादृश्यं पूर्वमवगतं स एव पिण्डोऽस्मिन् दृश्यमाने स्मरणपथमवतरति नेतर इति।सादृश्य ग्रहणमसंवेद्यमानमप्यनभ्यस्तविषयाविनाभावस्मृतिबलात् परिकल्प्यते। पूर्वञ्च गवयग्रहणाद् विना गवयसदृशीयं गौरिति ग्रामीणस्यानुभवो न भवतीति व्यक्तितिरस्कृतं तत्सादृश्यग्रहणमुच्यते इति न किञ्चिच्चित्रम् । तस्मात् स्मृतिरेवे- 25