________________
९१०
न्यायमञ्जयां
[द्वितीयम्
भावात्, यथा मुद्गस्तम्भस्तथा मुद्गपर्णीति मुद्गपाद्योषधिपरिज्ञानेऽपि तदुप योगि भवति ।
सर्वानुग्रहबुद्धया च करुणार्द्रमतिर्मुनिः।
मोक्षोपयोगाभावेऽपि तस्य लक्षणमुक्तवान् ॥ नन्वेवं सति यागौषधाधुपयोग्यन्यदपि बह्वपदेष्टव्यं स्यात् । न । प्रमाणशास्त्रत्वादस्य प्रमाणमेवार्थपरिच्छित्तिसाधनमिहोपदिश्यते। तच्चतुर्विधमेव न न्यूनमधिकं वेति निर्णीतम् । प्रमेयन्तु मोक्षाङ्गमेवोपदिश्यते इत्यलं प्रसङ्गन। मीमांसकाभिमतोपमानस्वरूपम्
___ जैमिनीयास्तु अन्यथोपमानस्वरूपं वर्णयन्ति । यदा श्रुतातिदेशवाक्यस्य वने 10 गवयपिण्डदर्शनानन्तरं नगरगतं गोपिण्डमनुस्मरत एतेन सदृशी गौरिति ज्ञानं
तदुपमानम् । तस्य विषयः सम्प्रत्यवगम्यमानगवयसादृश्यविशिष्टः परोक्षो गौः, तवृत्ति वा गवयसादृश्यम् । अत एव तज्ज्ञानं न प्रत्यक्ष जन्यं परोक्षगोपिण्डविषयत्वात्, अश्रुतातिदेशवाक्यस्याभावान्न शाब्दम् ।
न च स्मरणमेवेदं प्रमेयाधिक्यसम्भवात् । गवयेन हि सादृश्यं न पूर्वमवधारितम् ॥ भूयोऽवयवसामान्ययोगो यद्यपि मन्मते।
सादृश्यं तस्य तु ज्ञप्ति होते प्रतियोगिनि ॥ न चानुमानिकमिदं ज्ञानमनपेक्षितपक्षादिधर्मादिकस्य भावात्, न च गवयगतं सादृश्यं तत्र लिङ्गमपक्षधर्मत्वात्, नापि गोगतमप्रसिद्धत्वात् प्रतिज्ञार्थंकदेश* त्याच्च, विषाणाद्यवयवजातमपि न गोगतं लिङ्गमिदानी वनस्थस्य तद्ग्रहणा
तस्य तु ज्ञप्तिर्गहीते प्रतियोगिनीति । अमुकस्यायं सदृश इति द्वयोर्ग्रहणसापेक्षत्वात् सादृश्यप्रत्ययस्येति ।
गवयगतं सादृश्यमिति । न हि गोः पक्षीकृताया गवयगतं सादृश्यं धर्मः, तस्य गवयधर्मत्वात् । नापि गोगतमिति । गोगतं यद् गवयसादृश्यं 'गवयसदृशी सा' 253 इति बुद्धिनिमित्तम्, तत् प्रागुपमानव्यापारादसिद्धम् । प्रतिज्ञार्थंकदेशत्व (अत्र ग्रन्थः
खण्डितः) नापि कल्प्यमानं ग्रहणम् ।