________________
२०६
आह्निकम् ]
प्रमाणप्रकरणम् तस्मादयं स गवयो नामेत्येवंविधा मतिः।
उपमानकजन्यैव न प्रमाणान्तरोद्भवा ॥ न चैषा नास्ति, सन्दिग्धा, बाध्यते, कल्पनामानं वेति सर्वथैतस्याः प्रमितेः साधनमुपमानं प्रमाणमिति सिद्धम् । तदिदमाह 'प्रसिद्ध साधात् साध्यसाधनमुपमानम्' । प्रसिद्धसाधादिति कर्मधारयः, तृतीयासमासः, बहुव्रीहिर्वा । प्रसिद्धञ्च 5 तत् साधर्म्यम्, प्रसिद्धन गवा वा साधर्म्यम्, गवयस्य प्रसिद्धं वा साधर्म्य यस्य स प्रसिद्धसाधो गवयः। तस्मात् प्रसिद्धसाधात् साध्यसाधनमुपमानम्। साध्यः संज्ञिसम्बन्धः, तस्य साधनम् बोधनम्, संज्ञासंज्ञिसम्बन्धज्ञानं वा साध्यं तस्य साधनं जननमित्यर्थः । एवं प्रसिद्ध साधर्म्यज्ञानमुपमानम्, फलं संज्ञासंज्ञिसम्बन्धज्ञानमित्युक्तं भवति । साध्यसाधनशब्देन करणस्य प्रमाणताम् ।
10 ब्रवीत्येतच्च मन्तव्यं सर्वत्र परिभाषितम् ॥ अत एव मध्ये लिखितमिदं यदुभयतः प्रमाणलक्षणानि व्याप्स्यतीति । उपमानस्योपयोगविषये पूर्वपक्षस्तत्समाधानश्च
अत्यन्तप्रायसाधर्म्यविकल्पादिनिबन्धनः ।
क्षिप्तः सूत्रकृतः साक्षादुपमानस्य विप्लवः ॥ येन सदृशप्रतीतिर्जन्यते तत्सदृशमिति किमत्यन्तसादृश्यादिविकल्पैः ?
अभिन्नप्रत्यये हेतुर्यथा सामान्यमुच्यते ।
सदृशप्रत्यये हेतुस्तथा सादृश्यमुच्यते ॥ ननपमानलक्षणमस्मिन् मोक्षशास्त्र क्वोपयुज्यते ? आगमात् तावदात्मज्ञानं मोक्षसाधनं सेतिकर्तव्यताकमवगम्यते, अनुमानादागमप्रामाण्यनिश्चयः, प्रत्यक्षादतु- 20 मानस्य व्याप्तिपरिच्छेद इति त्रयमेवोपदेष्टव्यम् । सत्यमेवम् । उपमानमपि क्वचिद् गवयालम्भादिचोदनार्थानुष्ठाने सोपयोगम्, अनवगतगवयस्वरूपे तदालम्भा
अत्यन्तप्रायेति । 'अत्यन्तप्रायैकदेशसाधादुपमानासिद्धिः' इति सूत्रं लक्षयति । अत्यन्तसाधादुपमानं न सिद्धयति, न हि भवति यथा गौरेवं गौरिति, प्रायःसाधादपि, न हि भवति यथानड्वारतथा महिष इति, एकदेश- 25 साधर्म्यन्तु सत्तापेक्षया सर्वेष्वस्तीति ।
२७