________________
२०८
न्यायमञ्जयां
[ द्वितीयम्
न चासौ निर्वहत्यत्र वाच्यसंवित्त्यपेक्षणात्। शब्देन तदनिर्वाहान्न स्वकार्यं कृतं भवेत् ॥ सम्बन्धप्रतिपत्तिश्च सामान्ये यदि वेष्यते। तदप्यविदितव्यक्ति न सम्यगवधारितम् ॥ गवयाकारवृत्तिश्च तदानीं बुद्ध्युपप्लवः । सम्बन्धेऽपि द्वयधिष्ठाने दधाति श्यामलां धियम् ॥ प्रत्यक्षपूर्वकं तस्मात् संज्ञाकर्मेति गीयते । क्वचित्तदेव प्रत्यक्षं स्मृतिद्वारेण कारणम् ॥ पूर्वदृष्टे कुरङ्गादौ सम्बन्धो दर्शितो यथा।
चैत्रे प्रत्यक्षवत्सिद्धिर्दन्तुरादिविशेषणः॥ इह पुनरतिदेशवचनसमये गोसादृश्यमात्रोपदेशे सत्यपि संजिनि न निवर्तते एवोपप्लवः प्रमाणान्तरपरिच्छेदसापेक्षकसंज्ञिरूपोपदेशात् । 'यत्र गोसादृश्यं पश्यसी'ति प्रत्यक्षादेव तहि उपप्लवो विरंस्यतीति चेद्, न । प्रत्यक्षस्येन्द्रियसन्निकर्षादिस्वभावस्य संज्ञासंज्ञिसम्बन्धबोधकरणासमर्थत्वात् ।
प्रत्यक्षफलमेतत्तु समर्थ सत्यमिष्यते।
तस्यैव च वयं ब्रूम उपमानप्रमाणताम् ॥ यथा प्रत्यक्षफलमपि धरणिधरकुहरभुवि धूमदर्शनमनिन्द्रियविभावसुबोधसाधनत्वादनुमानम्, एवं गोसारूप्यविशेषितविपिनगतगवयपिण्डदर्शनमध्यक्षफलमपि तद् अनवगतसंज्ञासंज्ञिसम्बन्धबोधविधानादुपमानमुच्यते। यथा च तत्र पूर्वावगतधूमाग्निप्रतिबन्धस्मरणं सहकारितामुपैति तथा इहापि पूर्वश्रुतारण्यकवाक्यार्थस्मरणम् । यथा तत्र व्याप्तिवेलायामनालीढविशेषा बुद्धिरधुना पक्षधर्मताबलाद् विशेष व्यवतिष्ठते अत्राग्निरिति तथात्राप्यनवगतवाच्यविशेषाद् वाक्याद् बुद्धिरिदानी वाच्यविशेषे दृष्टे निरुपप्लवा जायते 'अयं स गवयशब्दाभिधेय' इति । नैतावतानुमानमेवेदमित्याशङ्कनीयम्, अनपेक्षितधर्मान्वयव्यतिरेकादिसामग्रीकस्य तत्प्रत्ययोत्पादात् ।
20
श्यामलापि तादृश्येव । (?)