________________
आह्निकम् ]
प्रमाणप्रकरणम्
२०७
अस्यायमर्थो यस्य त्वं गोसादृश्यं निरीक्षसे । तमेव गवयं विद्याः स चायं संज्ञिनो ग्रहः॥ सम्बन्धकारणञ्चेह विशेषेषु न युज्यते। आनन्त्यात् किन्तु सामान्ये तच्चेत्थमवधारितम् ॥ प्रत्यक्षपूर्वक संज्ञाकर्मेति न हि वैदिकी। चोदना किन्त्ववच्छेदः संज्ञिनोऽत्र विवक्षितः ॥ स तु प्रत्यक्षतो वास्त प्रमाणान्तरतोऽपि वा। स्मर्यमाणोऽपि चार्थोऽस्ति सङ्केते कारणं क्वचित् ॥ योऽसौ तत्र त्वया दृष्टः प्राणी स रुरुरुच्यते । क्वचित्तु कैश्चिन्निदिश्य परोक्षमुपलक्षणः । संज्ञिनं व्यवहफ़्रस्तत्र संज्ञां नियुञ्जते। दन्तुरो रोमशः श्यामो वामनः पृथुलोचनः ॥ यस्तत्र चिपिटग्रीवस्तं चत्रमवधारयः। एवमत्रापि गोपिण्डसारूप्येणोपलक्षिते ॥ वाच्ये वाचकसम्बन्धबोधनं नैव दुर्घटम् । अथ सोपप्लवा वाक्याद् बुद्धिरित्यभिधीयते ॥ उपप्लवोऽपि सम्बन्धे न कश्चिदनुभूयते । यस्त्वस्ति गवयाकारं प्रति कीदृगसाविति ॥ सोऽपि प्रत्यक्षतो दृष्टे गवये विनिवर्तते ।
प्रत्यक्षागमसिद्धऽर्थे तस्मान्मानान्तरेण किम् ॥ उपमानस्य प्रमाणान्तरत्वव्यवस्थापनम् . अत्राहुः, नाटविकरटितवाक्याद्विस्पष्टः संज्ञासंज्ञिसम्बन्धप्रत्ययो भवितुमर्हति, संज्ञिनस्तदानीमप्रत्यक्षत्वात् । यद्यपि गोसारूप्यविशिष्टतया तदवगम उपपादितस्तथापि सोपप्लवेव भवति तदानीं बुद्धिः।
म निराकाङ्क्षताबुद्धिस्तदानीमुपजायते । तदुत्पादनपर्यन्तः शब्दव्यापार इष्यते ॥
अथ सोपप्लवा अनिराकाङ्क्षा।