________________
२०६
न्यायमञ्जयां
[द्वितीयम् त्वौपमानिकीति वचनमपि भवदिदमुपमानं प्रमाणान्तरमिति युक्तम् । भाष्याक्षराण्यपि चैतत्पक्षसाक्ष्यच्छायामिव वदन्ति लक्ष्यन्ते । तानि तु ग्रन्थगौरवभयान्न योज्यन्ते इत्यलं प्रसङ्गन। तत्रैव नव्यमतम्
अद्यतनास्तु व्याचक्षते श्रुतातिदेशवाक्यस्य प्रमातुरप्रसिद्ध पिण्डे प्रसिद्धपिण्डसारूप्यज्ञानमिन्द्रियजं संज्ञासंज्ञिसम्बन्धप्रतिपत्तिफलमुपमानम् । तद्धीन्द्रियजनितमपि धूमज्ञानमिव तदगोचरप्रमेयप्रमितिसाधनात् प्रमाणान्तरम्, श्रुतातिदेशवाक्यो हि नागरकः कानने परिभ्रमन् गोसदृशं प्राणिनमवगच्छति ततो वनेचर
पुरुषकथितं 'यथा गौस्तथा गवय' इति वचनमनुस्मरति स्मृत्वा च प्रतिपद्यते 'अयं 10 गवयशब्दवाच्य' इति। तदेतत् संज्ञासंजिसम्बन्धज्ञानं तज्जन्यमित्युपमानफलमित्युच्यते।
प्रत्यक्षं तावदेवतद्विषये न कृतश्रमम् । वनस्थगवयाकारपरिच्छेदफलं हि तत् ॥ अनुमानं पुनर्नात्र शङ्कामप्यधिरोहति । क्व लिङ्गलिङ्गिसम्बन्धः क्व संज्ञासंज्ञितामतिः ॥ आगमादपि तत् सिद्धिर्न वनेचरभाषितात् ।
तत्कालं संजिनो नास्ति गवयस्य हि दर्शनम् ।। संज्ञासंज्ञिनोश्च परिच्छेदे सति तत्सम्बन्धः सुशको भवति नान्यथा, अत एव प्रत्यक्षपूर्वकं संज्ञाकर्मेत्याचक्षते। 20 उपमानस्य प्रमाणान्तरत्वे शङ्का एतदाक्षिपति
ननु नागरकप्रश्नमनुरुध्य वनेचरः। ब्रूतेऽतिदेशकं वाक्यं यथा गौर्गवयस्तथा ॥
भाष्याक्षराणोति । भाष्यकारो हि तत्र तत्र वाक्यमेवोपमानशब्देनाह 25 "यथा गौरवं गवय इत्युपमाने प्रयुक्ते” इत्यादौ ।