________________
प्रमाणप्रकरणम्
आह्निकम् ]
सिद्धः कालश्चाक्षुषो लैङ्गिको वा तन्नानात्वं सिद्धमौपाधिकञ्च।
तस्माद् युक्तं निश्चिकाय त्रिकालग्राहीत्येवं सूत्रकारोऽनुमानम् ॥ उपमाननिरूपणे वृद्धनैयायिकमतम् अनुमानान्तरमुपमानं विभागसूत्रे पठितमिति तत्क्रमेण तस्य लक्षणमुच्यते ।
प्रसिद्धसाधात् साध्यसाधनमुपमानम् ।। ६ ॥ अत्र वृद्धनैयायिकास्तावदेवमुपमानस्वरूपमाचक्षते, संज्ञासंज्ञिसम्बन्धप्रतीतिफलं प्रसिद्धतरयोः सारूप्यप्रतिपादकमतिदेशवाक्यमेवोपमानम् । गवयार्थी हि नागरकोऽनवगतगवयस्वरूपस्तदभिज्ञमारण्यकं पृच्छति कीदग गवय इति स तमाह यादृशो गौस्तादृशो गवय इति । तदेतद् वाक्यमप्रसिद्धस्य प्रसिद्धन गवा सादृश्यमभिदधत् तद्वारकमप्रसिद्धस्य गवयसंज्ञाभिधेयत्वं ज्ञापयतीत्युपमानमुच्यते। 10
___ नन शब्दस्वभावत्वादस्याप्तोपदेशः शब्द इत्यनेन गतार्थत्वान्नेदं प्रमाणान्तरं भवेत्, न च संज्ञासंज्ञिसम्बन्धपरिच्छेदफलत्वेन प्रमाणान्तरता वक्तव्या फलवैचित्र्येण प्रमाणानन्त्यप्रसङ्गात् । लौकिकानि हि वचनानि वैदिकानि च विधिनिषेधबोधकानि नानाफलान्यपि भवन्ति न शब्दतामतिकामन्ति ।
उच्यते यत्र शब्दप्रत्ययादेव तत्प्रणेतृपुरुषप्रत्ययादेव वा अर्थतथात्वमुपा- 15 यान्तरानपेक्षमवगम्यते स आगम एव, ततस्तदर्थप्रतीतेः ।यत्र तु पुरुषःप्रतीत्युपायमपरमुपदिशति तत्र तत एवोपायात्तदर्थावधारणम् । उपायमात्रावगमे तु शब्दव्यापारो यथा परार्थानुमाने अग्निमानयं पर्वतो धूमवत्त्वान्महानसवदिति । अत्र हि न पुरुषोपदेशविश्वासादेव शैलस्य कृशानुमत्तां प्रतिपत्ता निमित्तान्तरनिरपेक्षः प्रतिपद्यते अपि तु तदवबोधकधूमाख्यलिङ्गसामर्थ्यादेव । तदिह यद्याटविको नागरकाय गव- 20 याथिने तदवगमोपायं प्रसिद्धसाधयं नाभ्यधास्यत् तहि तदुपदेश आगमे एव अन्तरभविष्यत्, तदुपदेशात्तु तत एव तदर्थावगम इति सत्यपि शब्दस्वभावत्वे प्रमाणान्तरमेवेदम् । प्रतिपत्तापि नागरको नारण्यकवाक्यादेव तं प्राणिनं गवयशब्दवाच्यतया बुध्यते किन्तु सारूप्यं प्रसिद्धन गवा तस्य पश्यति । किमारण्यकवाक्येन न सम्प्रत्ययो नागरकस्य ? न ब्रूमो नसम्प्रत्यय इति किन्तु सारूप्यमुपायान्तरम, तदवगतावसावुप- 25 दिष्टवानिति ततोऽवगतिर्भवन्ती न निहोतुं शक्यते इति न शाब्दी सा प्रतीतिरपि ।