________________
२.४
न्यायमञ्ज
[द्वितीयम्
आस्कन्दनदलत्कुन्दकलिकोत्करदन्तुराः । वदन्ति शिशिरं वातास्तुषारकणकर्कशाः ॥ तस्मादेकोऽप्ययं कालः क्रियाभेदाद् विभिद्यते।
एतेन सदृशन्यायान्मन्तव्या दिक् समर्थिता । 5 प्रसङ्गात् कालवदेवदिशः सिद्धिरिति प्रदर्शनम्
पूर्वपश्चिमादिप्रत्ययानां केवलवृक्षादिप्रत्ययवैलक्षण्येन कारणान्तरानुमानात्। दिलिङ्गाविशेषादेकत्वेऽपि दिशो दशविधाः। प्रदक्षिणावर्त्तपरिवर्त्तमानमार्तण्डमण्डलमरीचिनिचयचुम्ब्यमानकाञ्चनाचलकटकसंयोगोपाधिकृतः पूर्वपश्चिमादि
भेदः कल्प्यते पूर्वा पूर्वदक्षिणा दक्षिणा दक्षिणपश्चिमा पश्चिमा पश्चिमोत्तरा 10 उत्तरा उत्तरपूर्वा अधस्तनी ऊर्ध्वा चेति । देवतापरिग्रहवशाच्च पुनरेवदिग् दशधो
च्यते ऐन्द्री आग्नेयी याम्या नैर्ऋती वारुणी वायव्या कौबेरी ऐशानी नागीया ब्राह्मी चेति।
ननु च येनैव प्रत्ययेन प्रत्यक्षेण लिङ्कन वा सता दिक्कालाववगम्येते तेनैव तयोर्भेदग्रहणात् कथमेकत्वं तदवगमसमय एव तथा भेदप्रतिभासात् ? उक्तमत्र सर्वत्र तत्प्रत्ययाविशेषादिति, व्यत्ययदर्शनाच्च येवैकत्र पूर्वा दिक् सैवान्यत्र दक्षिणेति गृह्यते, 'प्राग्भागो यः सुराष्ट्राणां मालवानां स दक्षिण' इति । कालेऽपि चिरक्षिप्रादिविभागश्चाव्यवस्थित एव दृश्यते । यो हि अनागत इति परिस्फुरति कालः स एव वर्तमानीभवति, भूतो भवति च, तथा च चिरमपि शीघ्रीभवति शीघ्रमपि चिरीभवति । तस्मात् तद्भेदोऽप्यौपाधिक इति सिद्धम् ।
समानतन्त्रे दिक्कालौ वैतत्येन विचिन्तितौ। ___ तन्नेह लिख्यते लोके द्वेष्या हि बहुभाषिणः ॥
प्राग्भागो यः सुराष्ट्राणामित्यस्य 'प्राग्भागः पुनरेतेषां तेषामुत्तरतः स्थितः' इति शेषः । सुराष्ट्रवासिनो यदा पूर्वदिओखात उद्यन्तमादित्यं पश्यन्ति तदा मालवा
दक्षिणदिक्संस्थं पश्यन्ति; सुराष्ट्रोत्तरादअवस्थितत्वान्मालवानाम्। स एव वर्तमानी25 भवतीति । उक्तम्
अयमेव हि ते काल: पूर्वमासीदनागतः । अवश्यम्भाविनं नाशं विद्युः सम्प्रत्युपस्थितम् । इति ॥