________________
आह्निकम् ]
प्रमाणप्रकरणम् सोपाधिकः, काले एव वर्तमानादित्रयव्यवहारः। अतश्च यदुच्यते वृक्षात् पततः पर्णस्य भूतभविष्यन्तावध्वानौ दृश्येते न वर्तमानः, तस्माद् वर्तमानः कालो नास्तीति तदसम्बद्धम्,अध्वव्यङ्गयत्वाभावात् कालस्य। न ह्यध्वव्यङ्गायः कालभेदः किन्तु यथोक्तक्रमेण क्रियाव्यङ्गय एवेति क्रियापरिकल्पितभेदनिबन्धनश्वायं क्षणलवकाष्ठाकलानालिकामुहूर्तयामाहोरात्रमासवयनसंवत्सरयुगमन्वन्तरकल्पव्यवहार इत्यलं प्रसङ्गन।
तिथ्यादिभेदावधारणञ्च वैदिककर्मप्रयोगाङ्गम्, पौर्णमास्यां पौर्णमास्यया यजेत अमावस्यायाममावस्यया यजेते'ति । एवं वसन्ताद्युतुभेदोऽपि तदङ्ग 'वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः, शरदि वैश्यः वर्षासु रथकार' इति । स चायमृतुतिथ्यादिविभागः क्रिययैव ज्योतिःशास्त्रोपदिष्टविशिष्टराशिसंसृष्टचन्द्रादिग्रहगतया लक्ष्यते लौकिकेन च लक्ष्मणा तेन तेनेति, तद्यथा
चञ्च्वनचुम्बिताताम्रचूताङ्कुरकदम्बकैः । कथ्यते कोकिलैरेव मधुर्मधुरकूजितः ॥ दिवाकरकरालातपातनिर्दग्धवीरुधः । मार्गाः समल्लिकामोदा भवन्ति ग्रीष्मशंसिनः॥ शिखण्डमण्डनारब्धोद्दण्डताण्डवडम्बरैः। . प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः ॥ ... मौक्तिकाकारविस्तारितारानिकरचित्रितम् । ..... शरत् पिशुनतां याति यमुनाम्भोनिभं नभः॥ ..... ... आयामियामिनीभोगसफलाभोगविभ्रमाः । . ., हेमन्तमभिनन्दन्ति सोष्माणस्तरुणीस्तनाः॥
15
निरोधयोगि प्रागभावाक्रान्तं यत् फलम् । अतश्च यदुच्यत इत्यनेन 'वर्तमानाभावः पततः पतितव्यपतितकालोपपत्तेः' इति सूत्रं सूचयति । अतिक्रान्तेनाध्वना यः सम्प्रयुक्तोऽतीतकालः, अनागतेनाध्वना यः सम्प्रयुक्तस्तच्छेषः, तृतीयस्याध्वनोऽभावात् ।। किंसम्प्रयुक्तो वर्तमानः स्यादित्यध्वव्यङ्ग्यकालवाद्यभिप्रायः।
आयामियामिनीति । आयामी दीर्घो यो यामिनीनां रात्रीणां भोगः विस्तरस्तेन हेतुना सफलः सप्रयोजनः आभोगविभ्रमः परिणाहाश्रयो गुणविशेषो येषाम् ।