________________
न्यायमञ्जयां
[द्वितीयम् तत्र तथा दर्शनान्नदं चोद्यम्, तदिहापि समानम् । कार्येषु पटादिषु निमित्तान्तरकृतः क्रमादिव्यवहारः, निमित्तान्तरे निमित्तान्तरं न मृग्यमिति । तस्मादस्ति युगपदादिव्यवहारहेतुः कालः, अतश्चैवम्
- दृष्टः परापरत्वस्य दिक्कृतस्य विपर्ययः ।
.. युवस्थविरयोः सोऽपि विना कालं न सिध्यति ॥ - दूरतरदिगवच्छिन्नो देवदत्तादिः पर इति प्रतिभासते निकटदिगवच्छिन्नस्तु अपर इति । तदत्र न कालव्यतिरिक्तं कारणमुपपद्यते इत्यतोऽनुमीयते कालः। . सचायमाकाशवत् सर्वत्रैकः कालः। यथा आकाशलिङ्गस्य शब्दस्य सर्वत्राविशेषाद्
विशेषलिङ्गाभावाच्चैक आकाशः सर्वत्र तद्व्यवहाराद् विभुः, अवयवाश्रयानुप10 लम्भाद् निरवयवः, अनाश्रितश्च अनाश्रितत्वादेव द्रव्यम्, अत एवावयवविभागादि
नाशकारणानुपपर्तनित्य इति । उपाधिकृतकालत्रैविध्यप्रदर्शनम्
__ नन्वेवञ्चैकत्वात् कालस्य कुतो वर्तमानादिविभागः, तदभावात् कथं त्रिकालविषयमनुमानमुच्यते ? उच्यते। न तात्त्विकः कालस्य भेदो वर्तमानादिः किन्त्वसन्नप्यसौ व्यवहारसिद्धये केनचिदुपाधिना कल्प्यते । कः पुनरसावुपाधिः ?
15 क्रियेति ब्रूमः।
ननु तस्या अपि न स्वतो वर्तमानादिभेदः, तद्भावे वा सैव तथा भवतु कि कालेन ? मैवम् । उत्पत्तिस्थितिनिरोधयोगिफलावच्छेदेन नानाक्षणपरम्परात्मिकापि क्रियेत्युच्यते । सा वर्तमानादिभेदवती च । तथा हि, स्थाल्यधिश्रयणात् प्रभृति आ तदवतरणादुत्पद्यमानौदनाख्यफलावच्छेदात् क्रिया वर्तमानोच्यते, पचतीति तदवच्छेदाद् घटाकाशवत् कालोऽपि तावान् वर्तमान इत्युच्यते । अभिनिर्वृत्तफलावच्छेदात्मा परिस्पन्दसन्ततिरतीता भवति अपाक्षीदिति, तदवच्छेदात् कालोऽप्यतीत उच्यते।अनारब्धफलावच्छेदाद् भविष्यन्ती क्रियोच्यते पक्ष्यतीति, तथा कालोऽपीत्येवं
... दृष्टः परापरत्वस्येति । दूरस्थोऽपि युवा अपरोऽप्रकृष्टकालत्वात् कालापेक्षया, २९. दिगपेक्षयात्र पर एवासी; निकटस्थोऽपि स्थविरः प्रकृष्टकालत्वात् कालापेक्षया तु परो .: दिगपेक्षया त्वपर एव सन् ।
उत्पत्तिस्थितिनिरोधेति । उत्पत्तियोगि उत्पद्यमानम्, स्थितियोगि उत्पन्नम्,