SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] प्रमाण प्रकरणम् प्रमाणमिति निर्णीतं प्रत्यक्षं सविकल्पकम् । तस्मान्न कल्पनामात्रं चिरक्षिप्रादिसंविदः ॥ न च सम्परिदृश्यमानकरणविनिर्मितत्वमुपपद्यते क्रियमाणस्य पटादेः कार्यस्य । तदुत्पादस्य च तन्तुतुरीचेमशलाकाकुविन्दादिकारणवृन्दस्य साम्येऽपि क्वचित्तूर्णं कृतं क्वचिच्चिरेण कृतमिति प्रतिभासभेददर्शनान्निमित्तान्तरं चिन्तनीयम् । चिरेणास्तं गतो भानुः शीतांशुः शीघ्रमुद्गतः । उदिताविव दृश्येते युगपद् भौमभार्गवी ॥ ननु परिस्पन्दादिक्रियाभेद एवात्र निमित्तम्, कश्चित्परिस्पन्दश्चतुरः कश्चिन्मन्थर इति क्वचित् क्षिप्रबुद्धिः क्वचित् चिरबुद्धिरिति । नैतच्चारु । परिस्पन्दगतयोरपि चातुर्यमान्थर्ययोनिमित्तान्तरकार्यत्वात्, परिस्पन्देऽपि चिरेण गच्छति शीघ्रं धावतीति चिरक्षिप्रादिप्रतीतिदृश्यते । आहन देवदत्तादिपरिस्पन्दनिबन्धनाः क्रमाक्रमादिप्रत्ययाः किन्तु ग्रहनक्षत्रादिपरिस्पन्दनिबन्धनाः । स एव च ग्रहतारादि- 10 परिस्पन्दः काल इत्युच्यते, तत्कृत एवायं यामाहोरात्रमासादिव्यवहारः । तस्य स्वत एव भेदादोपाधिकभेदकल्पनाक्लेशो न भविष्यति । भेदपरिच्छेदे नालिकाप्रहरादि - रुपाय इयती नालिका इयन्मुहूर्तम् इयान् प्रहर इति । तत्रैकस्मिन् मुहूर्ते प्रहरे वा निर्वर्त्यमानेषु बहुषु कार्येषु युगपदिति भवति मतिः, मुहूर्तान्तरापेक्षेषु क्रमेणेति । तस्माद् ग्रहादिपरिस्पन्द एव तैस्तैर्निमित्तंरुपलक्ष्यमाणप्रमाणः काल इति । काल- 15 विदश्च ज्योतिर्गणकास्त एवैनं बुध्यन्ते । तदसाम्प्रतम् । चन्द्रादिग्रहपरिच्छेदेऽपि क्रियादिप्रतीतिदर्शनात् । २०१ ननु भवत्कल्पितोऽपि कालः किं स्वत एव क्रमस्वभावः हेत्वन्तराद्वा ? स्वतस्तस्य तत्स्वभावत्वे कार्यस्यैव पटादेः परिदृश्यमानस्य तत्स्वाभाव्यं भवतु कि कालेन ? हेत्वन्तरपक्षे त्वनवस्था, तस्यापि हेत्वन्तरापेक्षत्वादिति । 5 इति दृश्यते प्रतिभासः । न च ग्रहान्तरपरिस्पन्दकारणक एष शक्यते वक्तु- 20 मनवस्थाप्रसङ्गात् । तस्मान्न ग्रहादिपरिस्पन्दः कालः किन्तु वस्स्वन्तरम् यत्कृतोऽयं क्रमाविव्यवहारः । तदेतद्वालिशचोद्यम् । शुक्लगुणादावप्येवं वक्तुं शक्यत्वात् । गुणस्य स्वतः शुक्लस्वभावत्वे द्रव्यस्यैव तद् भवतु किं गुणेन ? गुणान्तरकल्पने स्वनवस्थेति । अथ २६ 25
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy