________________
न्यायमञ्ज
[द्वितीयम् २००
नेन प्रत्यक्षत्वमप्रत्यक्षत्वं वा व्यवस्थाप्यते । प्रत्यक्षत्वं ह्येन्द्रियकप्रतीतिविषयत्वमुच्यते, तच्चेदस्ति कालस्य नीरूपस्यापि प्रत्यक्षता केन वार्यते । रूपित्वं तद् द्रव्याणामस्तु तथा दर्शनात,
न चानुद्घाटिताक्षस्य क्षिप्रादिप्रत्ययोदयः ।
तद्भावानुविधानेन तस्मात् कालस्तु चाक्षुषः॥ स्वतन्त्र एव तहि घटादिवत् कस्मान्न गृह्यते काल इतिचेद् वस्तुस्वभाव एष न पर्यनुयोगार्हः। रूपिद्रव्यविशेषणतां गतस्य तस्य ग्रहणं न दण्डादिवत् स्वतन्त्रस्यापीति, गगनादेस्त्वन्यविशेषणतयापि न ग्रहणमस्तीति तस्याप्रत्यक्षत्वं न त्वरूपत्वात् ।
अथ वदेद् विशेषणस्यापि रूपवत एव दण्डादेः चक्षुषा ग्रहणं न कालादे10 रिति, तदयुक्तम्, अरूपस्यापि सामान्यादेविशेषणस्य चक्षुषा ग्रहणात् । द्रव्ये नियम
इति चेद्, उक्तमत्र यदेव नयनकरणकावगमगोचरे संचरति तदेव चाक्षुषं रूपवदरूपं वा द्रव्यमद्रव्यं वेति। एवं गुरु द्रव्यमिति कार्तस्वरादौ प्रतिभासाद् गुरुत्वमपि प्रत्यक्ष न पतनानुमेयमेव ।
तस्मात् स्वतन्त्रभावेन विशेषणतयापि वा।
चाक्षुषज्ञानगभ्यं यत् तत्प्रत्यक्षमुपेयताम् ॥ अत एव प्रत्यक्षः कालः। एवं समानन्यायत्वात् पूर्वापरादिप्रत्ययगम्या दिगपि प्रत्यक्षा वेदितव्येति। कालासत्त्वप्रतिक्षेपे कालस्यानुमेयतावादिनां मतम्
अन्ये मन्यन्ते दण्डी देवदत्तो नीलमुत्पलमितिवद् विषयातिरेकस्याग्रहणात् । प्रत्ययातिशयस्य च परोक्षकालपक्षेऽपि तत्कारणकस्योपपत्तेरनुमेय एव कालः ।
अप्रत्यक्षत्वमात्रेण न च कालस्य नास्तिता।
युक्ता पृथिव्यधोभागचन्द्रमःपरभागवत् ॥ अप्रतिभासमानोऽपि काल: संस्कार इवेन्द्रियसहचरितः प्रत्यभिज्ञां क्षिप्रादिप्रतीति जनयिष्यति।कृतश्च प्रत्यक्षलक्षणे महान् कलिः किं विषयभेदादेव प्रतिभासभेदः, उतोपायभेदादपोति तदलं पुनस्तद्विमर्दैन ।
प्रावरं मतमुपसंहृत्य 'अन्ये मन्यन्ते' इत्यादिनाचार्यमतमाह ।