________________
आह्निकम् ]
प्रमाणप्रकरणम्
पत्स्यते 1
प्रतिभासातिरेकस्तु प्रचितां काचिदाश्रित्य क्रियाक्षणपरम्पराम् ॥ न चैष ग्रहनक्षेत्रपरिस्पन्दस्वभावकः । कालः कल्पयितुं युक्तः क्रियातो नापरो ह्यसौ ॥ मुहूर्त्तयामाहोरात्रमासवंयन वत्सरः लोके काल्पनिकैरेव व्यवहारो भविष्यति ॥ faast विभुर्नित्यः कालो द्रव्यात्मको मतः । अतीत वर्त्तमानादिभेदव्यवहृतिः एवमाक्षिप्ते सति-
कुतः ॥
काला सत्त्वप्रतिषेधे कालप्रत्यक्षतावादिनां मतम् प्रत्यक्षगम्यतामेव केचित् कालस्य मन्वते । विशेषणतया कार्यप्रत्यये प्रतिभासनात् ॥ क्रमेण युगपत् क्षिप्रं चिरात् कृतमितीदृशः । प्रत्यया नावकल्पन्ते कार्यमात्रावलम्बनाः ॥
न हि विषयातिशयमन्तरेण प्रतिभासातिशयोऽवकल्पते । अरूपो नन्वयं कालः कथं गृह्येत चक्षुषा । रूपमेव तवारूपं कथं गृह्येत चक्षुषा ॥ कथं वा रूपवन्तोऽपि परोक्षाः परमाणवः । तस्मात् प्रतीतिरन्वेष्या किं निमित्तपरीक्षया ॥
१९९
5
10
15
द्रव्येऽयं नियमो न रूपादौ द्रव्येऽपि नायं नियमः यद्रूपवत् तत्प्रत्यक्षमिति, 20 परमाणूनां तथाभावः स्यात् । किन्तु यत् प्रत्यक्षं तद्रूपवदिति । तदुक्तम्, 'त्रयाणां प्रत्यक्षत्वरूपवत्त्वद्रवत्वादीनी 'ति । नेदं दैविकं वचनं यदनतिक्रमणीयम् । न च वच
प्रचितां काचिदाश्रित्येति । क्रियाक्षणपरम्परायाः प्रचितत्वेन वृद्धया 'चिरेण कृतम्' इति प्रत्ययः ।
अ
मुहूर्त यामाहोरात्रेति । 'मुहूर्तेन कृतम्' इत्यादिविकल्पानामपि कार्यमात्रा- 25 म्बनत्वम्; यथा सामान्यविकल्पस्य व्यक्तिमात्रालम्बनत्वं तद्वदेषामिति भावः ।