________________
१९८
न्यायमञ्जयां
[द्वितीयम् अनुमानस्य त्रैकालिकविषयग्रहणसामर्थ्यम्
इदमिदानी चिन्त्यते, यदेतदिन्द्रियादिसन्निकर्षजत्वादिना लक्षितमस्मदादिप्रत्यक्षं तत्किल प्रायशो वर्तमानकालविशिष्टवस्तुविषयम् । एवमिदमनुमानमपि किं तद्गोचरमेव, किं वा कालान्तरपरिच्छेदेऽपि क्षममिति, तदुच्यते, त्रिकालविषयमनुमानमिति, कस्मात् त्रैकाल्यग्रहात्, त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते, भूता नदीपूरेण वृष्टिरनुमीयते, सैव भविष्यन्ती मेघोन्नत्या, धूमेन वर्तमानोऽग्निरिति । अतश्च यन्मीमांसकैरुच्यते चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितु नान्यदिति तदयुक्तम्, चोदनावत् प्रमाणान्तरस्याप्येवंजातीयकविषयत्वोपपत्तेः। प्रत्यक्षमपि योगिनां त्रिकालविषयमुक्तम्, अस्मदादीनामपि क्वचिदिति।
कालासत्त्वादः
अत्र चोदयन्ति, काले सति त्रैकाल्यग्रहणं चिन्त्यम्, स एव तु दुरुपपादः, तदभावे कस्य वर्तमानादिविभागो निरूप्यते।
न तावद् गृह्यते कालः प्रत्यक्षेण घटादिवत् । चिरक्षिप्रादिबोधोऽपि कार्यमात्रावलम्बनः ॥ न चामुनव लिङ्गन कालस्य परिकल्पना। प्रतिबन्धो हि दृष्टोऽत्र न धूमज्वलनादिवत् ॥
यस्तु 'अयं घटोऽयं घटः' इत्यादिक एकाकारप्रत्ययः स तेषां मते सादृश्यनिबन्धनो न सामान्यनिबन्धन इति । यदुक्तम् 'पिण्डसारूयमेव सामान्यम्' इति; सारूप्यावच्छिन्नः पिण्ड एवानुगतप्रत्ययहेतुरित्यर्थः। तच्चोपादानं प्रतिविकारमन्यच्चान्यच्चाभ्युपगन्तव्यम्, अन्यथा विकाराः परस्परं भिन्नास्तदुपादानं यद्यभिन्न सुपेयते तदा चाभिनात्मन्युपादाने भिन्नात्मनो विकारस्य कथं सम्भवः । तत्र ह्युपादाने योऽशो नास्ति स चेद् विकारेऽभ्युपगम्यते तदा असत उत्पादात् सत्कार्यवादहानापत्तिः । तद्भिन्नात्मनो विकारस्य भिन्नात्मैवोपादानमभ्युपेयम् ।