________________
आह्निकम् ]
प्रमाणप्रकरणम् तमालनीलजीमूतसमूहपिहिताम्बरे।
निशीथे सान्धकारेऽपि चलत्खद्योतदर्शनात् ॥ न तत्रालोकावयवी न च कश्चन तिमिरावयवी वा विद्यते इति केन संयोगो गृह्यते विभागो वा । भूकम्पोत्पाते च जाते चलति वसुमतीति मतिरस्ति न तत्र संयोगविभागौ गृह्यते, वहुलनिशीथे च नतराम, तस्मान्न संयोगाद्यालम्बना चलतीति 5 मतिरपि तु क्रियालम्बनैवेति। न च नित्यपरोक्षा क्रिया अनुमातुमपि शक्या, कार्यस्य कारणपूर्वकत्वेन भवन्मते सम्बन्धग्रहणानुपपत्तेः, न हि ते द्रव्यस्वरूपं कारणमपि तु क्रियाविष्टम्, क्रियायाश्च परोक्षत्वान्न तदाविष्टद्रव्यग्रहणं सुघटमिति कारणत्वाग्रहणाद् घटादावपि दुर्घटा व्याप्तिप्रतीतिः । आत्मानुमाने तु नायं दोषः, घटादेः कार्यस्याश्रितस्य प्रत्यक्षमुपलम्भात्। तस्मान्न कार्यानुमेया क्रिया, न च संयोगानुमेया, 10 'संयोगान्तं कर्मेति न्यायाद् वर्तमानायाः क्रियायास्तेनानुमातुमशक्यत्वात्। क्रियानुमानवादश्च सामान्यलक्षणे विस्तरेण निरस्तः । शक्त्यनुमानवादप्रतिषेधः
एतेन शक्तयनुमानमपि व्युदस्तं वेदितव्यम् । पुरा च सविस्तरमतीन्द्रियशक्तिनिराकरणं कृतमेव।
तेनादृष्टक्रियाशक्तिस्वलक्षणमिति क्षमम् । नेदं सामान्यतोदृष्टमिति पूर्वोक्तमेव तत् ॥ इति मतुपि वतौ वा प्रत्यये वर्तमाने त्रिविधमिदमिहोक्तं युक्तमेवानुमानम् । परकविरचितानां लक्षणानां त्वमुष्मिन् सति न भवति शोभा भास्वतीवेन्दुभासाम्॥ बौद्धोक्तप्रतिबन्धदूषणदिशा तल्लक्षणं दूषितं भूयोदृष्टमितान्वयैककरणं शोच्यं पुनः शाबरम् । सांख्यानान्तु कुतोऽनमानघटनोपादानरूपा यतस्तेषांजातिरसौ च तद्विकृतिवद्भिन्नेति दुःस्थोऽन्वयः ॥
साङ्ख्यानान्तु कुतोऽनुमानघटनेति । तेषानुपादानरूपा जातिः, यया घटादीनां मृदुपादानम्, सर्वेषु घटादिषु मृद्रूपतानुवृत्तेः, सैव तेषां जातिः सामान्यम् ।