________________
१६६ न्यायमञ्जयां
[द्वितीयम् .. भवेत् । अविरलतदुपजनप्रबन्धेऽपि भूतभाविनोः संयोगविभागयोः परोक्षत्वाद् वर्त
मानयोग्रहणम् । तौ च चलित्वाऽपि स्थिते देवदत्त स्त इति तत्रापि कथं न चलतीति प्रत्ययः।
निरन्तरञ्च संयोगविभागश्रेणिदर्शनात् ।
भूमावपि भवेद् बुद्धिश्चलतीति मनुष्यवत् ॥ अथ मनुषे यत्क्रियाजन्यत्वं संयोगविभागयोस्तत्रैव चलतीत्यादिबुद्धिन्यत्र, देवदत्तक्रियया च तौ जन्येते न निष्क्रियया भूम्येति न तस्यां तथा प्रत्ययः ।। यद्येवं क्रियान्वयव्यतिरेकानुविधानात् क्रियालम्बन एवायं प्रत्ययो न संयोगविभागा
लम्बनः। तदालम्बनत्वे हि तयोर्द्वयवृत्तित्वाविशेषाद् विशेष कारणं वाच्यम् येन 10 पुरुष एवायं प्रत्ययो न भूमाविति, देवदत्तक्रियाजन्यत्वेन तु न विशेषो यतः क्रियायाः
परोक्षत्वे सति तदेव न विद्मः, किमसौ देवदत्ताश्रया क्रिया किं वा भूम्याश्रितेति, संयोगविभागकार्यानुमानस्योभयत्रापि तुल्यत्वात् । न च देवदत्ते गच्छति भूमावनवरतवहद्वातसंयोगविभागवत्यपि वा तरङ्गिणीतीरपाषाणे चलतीति प्रत्ययो
दृष्टः, तस्मात् क्रियाविषय एव चलतीति प्रत्ययो न संयोगविभागालम्बनः । संयोग15 विभागाग्रहणेऽपि च निरालम्बे विहायसि विहरति विहंगमे चलतीति संवेदनं
दृश्यते, न च गगनसंयोगः प्रत्यक्षः प्रत्यक्षेत्तरवृत्तित्वाद् गन्धवहमहीरुहसंयोगवत्, विततालोकावयव्याकाशस्तत्संयोगश्च पत्रिणः प्रत्यक्ष इति चेन्नं तदेवम्
दाहादेः कादाचित्कत्वात् कार्यत्वम्, कार्यश्च कारणं विना न सम्भवति, दृष्टस्य चाग्निस्वरूपस्य मन्त्रादिसन्निधाने व्यभिचाराददृष्टस्य कारणत्वकल्पना कार्यत्वबलादेव, इति कार्यमात्राच्छक्त्यनुमानम् । कार्यविशेषाच्च संयोगादेः क्रियानुमानम् । अथवा यथा भाटैर्व्याख्यातम् 'यत्र तेनैव धूमेन तस्यैवाग्नेरनुमानं तत् प्रत्यक्षतो दृष्टसम्बन्धम्, यत्र तु अन्येन विशेषेण सम्बन्धग्रहोऽन्यस्य चावगमस्तत् सामान्यतोदृष्टम्, तदनेन 'न तु विशेषविषयम्' इत्यादिना निराक्रियते । यो विशेषोऽनुमीयते तेन सह व्याप्तिर्न गृहीता, न चान्येन व्याप्तौ गृहीतायामन्यस्यानुमितिः, अतिप्रसङ्गादिति ।
विततालोकावयवीति । आकाशते आ समन्तात् प्रकाशत इति व्युत्पत्या आलोकावयविन एवाकाशत्वम् ।
25