________________
आह्निकम् ]
प्रमाण प्रकरणम्
य एव देवदत्तात्मा तिष्ठत् प्रत्ययगोचरः । चलतीत्यपि संवित्तौ स एव प्रतिभासते ।।
अविरल समुल्लसत् संयोगविभागप्रबन्धविषयत्वात्, चलतीति प्रत्ययस्य न सर्वदा तदुत्पादः, कथं तर्हि नित्यपरोक्षे क्रियास्वलक्षणेऽनुमानं क्रमते इति चेत्, कार्यस्य कादाचित्कत्वेन कारणपूर्वकत्वात् परिदृश्यमानस्य द्रव्यस्वरूपस्य कारणत्वे सर्वदा कार्योत्पादनप्रसङ्गात्, सर्वदा तत्स्वरूपसद्भावाद्, न च सर्वदा कार्यमुत्पद्यते इति तदतिरिक्त क्रियानुमानम् । एवं शक्तावपि द्रष्टव्यम् । क्रियाशक्तिस्वरूपस्य च नित्यपरोक्षत्वात् तददृष्टस्वलक्षणविषय मनुमानमुच्यते न तु विशेषविषयम्, विशेषे व्याप्तिग्रहणस्यासम्भवादिति ।
१९५
5
3
क्रियानुमानवादखण्डनम्
तदिदमनुपपन्नम्, परिस्पन्दरूपस्योत्क्षेपणादिभेदवतः कर्मणः चलत्यादिप्रतीत प्रकाशमानत्वेन प्रत्यक्षत्वाद् न तस्य नित्यानुमेयत्वम् । संयोगविभागालम्बनवे तु संयुज्यते विभज्यते इति प्रतीतिः स्याद् न चलतीति, यथाविषयं प्रत्ययोत्पादात् । संवेदनानुसारिणी च विषयव्यवस्था, अन्यथा घटप्रत्ययेऽपि परस्यालम्बनता स्यात् । संयोगविभागालम्बनत्वे सति तिष्ठत्यपि चलत् प्रत्ययः प्राप्नोति, तत्रापि 15संयोगविभागसम्भवात् । स्थाणौ च श्येनसंयोगविभागवति चलतीति प्रतिभासो
10
20
नुमानात्, अत एवादृष्टस्वलक्षणत्वम् । तथा च तट्टीका “अत्र चिनीतिज्ञम्मन्या अनवधृतस्वलक्षणमेव क्वचिदनुमानेन सामान्यतो गृह्यत इति मन्यन्ते तद्भ्रमापनयायेदमुक्तम् 'तत्तु द्विविधम्' इति । अदृष्टस्वलक्षणविषयमप्यनुमानमस्ति क्रियादिषु । कथं पुनरदृष्टस्वलक्षणे सम्बन्धिदर्शनम् ? उत्पत्तिमतः फलस्य दर्शनात्' इत्यादि । ननु मीमांसकभाष्यकृता देवदत्तस्य देशान्तरप्राप्तिं गतिपूर्विकां दृष्ट्वा आदित्येऽपि देशान्तरप्राप्त्या साक्षाद् विशेषरूपेणैव क्रियानुमानमुक्तम्, अतः कथमेवमुच्यते इत्याशङ्कयाह न तु विशेषविषयमिति । विशेषे व्याप्तिग्रहणस्यासम्भवादिति । गते नित्यपरोक्षत्वान्न कदाचित् प्रत्यक्षेण देशान्तरप्रात्या सह सम्बन्धग्रहणं तस्था इति । अदृष्टस्वलक्षणानुमाने तु सम्भवति सम्बन्धग्रहः; यथा अङ्कुरादिकार्यं सत्यपि बीजे कदाचिद् दृश्यमानं बीजातिरिक्तकारणान्तरापेक्षमिति दृष्टम्, एवं संयोगादि सत्यपि देवदत्ते कदाचिद दृश्यमानं तदतिरिक्तकारणापेशीति भवति सम्बन्धग्रहः । शक्तावपि
25