________________
१६४
न्यायमञ्ज
[द्वितीयम्
ननु सामान्यतस्तहि तत्परिच्छेदात् सामान्यतोदृष्टमेवेदं स्यात् ? न । सामान्यतोदृष्टस्य नित्यपरोक्षानुमेयकविषयत्वात्, प्रसक्तप्रतिषेधादिना च नियतसाध्यपरिच्छेदहेतुः परिशेषानुमानमुच्यते । यथा गोमयेन्धनदहनानुमानमुदाहृतम्, शब्दे
वा गुणत्वकल्पनम् । सामान्यतोदृष्टन्तु नित्यपरोक्षविषयमुदाहृतमेव श्रोत्राद्यनु5 मानम्, तदेवं भेदसम्भवात् त्रिविधमनुमानमिति युक्तम् ।
___ आस्तां वा उदाहरणभेदः । एकत्राप्युदाहरणे त्रैविध्यमभिधातुं शक्यते, यथा इच्छादिकार्यमाश्रितं कार्यत्वाद् घटवद् इत्याश्रयमात्रे साध्ये पूर्ववदनुमानम् । प्रसक्तशरीरेन्द्रियाद्याश्रयप्रतिषेधेन विशिष्टाश्रयकल्पने तदेव परिशेषानुमानम् ।
अनुमेयस्य नित्यपरोक्षत्वात् तदेव सामान्यतोदृष्टञ्च । 10 सामान्यतोदृष्टशेषवदनुमानयोरविशेष इति शङ्कायाः समाधानम्
ननु परिशेषस्य सामान्यतोदृष्टस्य च को विशेषः ? उच्यते परिशेषानुमानप्रवृत्तावन्यः पन्थाः सामान्यतोदृष्टस्यान्यः। इच्छादिकार्य देहादिविलक्षणाश्रयं शरीरादिषु बाधकप्रमाणोपपत्तौ सत्यां कार्यत्वादिति सामान्यतोदृष्टस्य क्रमः । परिशेषानुमानस्य तु इत्थं प्रवृत्तिः, इच्छादेराश्रयत्वेन प्रसक्तानि शरीरेन्द्रियमनांसि निषिध्यन्ते, दिक्कालादौ च तत्प्रसङ्गो नास्ति, तत्पारिशेष्यादात्मैव तदाश्रय इति । परिशेषानुमाने च सर्वत्र नैष नियमः साध्यस्यातिपरोक्षत्वमिति गोमयाग्निकल्पनादिदर्शनात्, सामान्यतोदृष्टन्तु नित्यपरोक्षविषयमेवेति सूक्तं त्रैविध्यम् । क्रियानुमानवादः
अपरे पुनरदृष्टस्वलक्षणविषयं शक्तिक्रियानुमान सामान्यतोदृष्टमुदाहरन्ति, देवदत्तादावपि क्रियायाः परोक्षत्वात् । चलतीति प्रत्यये हि न देवदत्तस्वरूपातिरिक्तक्रियातत्त्वप्रतिभासः।
अपरे पुनरिति प्राभाकराः। अदृष्टं स्वलक्षणं स्वरूपं यस्य क्रियादेस्तददृष्टस्वलक्षणम्, अनवधृतस्वरूपमित्यर्थः। तथाहि यथा स् त्यपि बीजे सलिलाद्यभावाद् अङ्करो
ऽभवन् बीजव्यतिरिक्तकारणान्तरापेक्ष इति गम्यते एवं सत्यपि देवदत्ते संयोगविभागौ 25 कदाचिद् भवन्तौ कदाचिच्चाभवन्तौ देवदत्तव्यतिरिक्तकारणान्तरापेक्षाविति गम्यते ।
तस्य हीत्थमरितत्वमात्रेणावगतिः, 'अरित किञ्चित् कारणान्तरम्' इत्येवंरूपेण क्रियादेर