________________
आह्निकम् ]
प्रमाणप्रकरणम्
१६३
नन प्रत्यक्षप्रतीत्या विषयगतसकलविशेषसाक्षात्करणक्षमया तुल्या नानुमानिकी मतिरिति कथंक्रियातुल्यत्वम् ? तदभावात् ? कथं वतिः ? सत्यमेवम। तथापि वह्वेरेव तादृशस्य वैलक्षण्यापादकविशेषावच्छिन्नस्य लिङ्गन ग्रहणाददूरविप्रकर्षण क्रियातुल्यत्वमुपपत्स्यते, शेषवन्नाम परिशेषः । स च 'प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणसम्प्रत्ययः', यथा क्वचित् प्रदेशे धूमेनाग्निमात्रेऽनुमिते किमिन्धनोऽय- 5 मग्निरिति विमर्श प्रसक्तानां तृगपर्णकाष्ठादीनां प्रतिषेधान्मृत्पाषाणादीनामप्रसङ्गाच्च गोमयेन्धनोऽग्निः परिकल्प्यते। यथा वा शब्दे द्रव्यकर्मत्वप्रतिषेधात् सामान्यादावप्रसङ्गाच्च गुणत्वानुमानं वक्ष्यते। सामान्यतोदृष्टन्तु यत्र सम्बन्धकालेऽपि लिङ्गस्वरूपमप्रत्यक्षं नित्यपरोक्षमेव सामान्यतो व्याप्तिग्रहणादनुमीयते। यथा शब्दाधुपलब्ध्या श्रोत्रादि करणम् । इद्रियाणामतीन्द्रियत्वान्न कदाचित् 10 प्रत्यक्षगम्यत्वम् । अथ च च्छेदनादिक्रियाणां परश्वधादिकरणपूर्वकत्वेन व्याप्तिग्रहणाच्छब्दाद्युपलब्धिक्रियाणां करणपूर्वकत्वमनुमीयते । तत्र शङ्का तत्समाधानञ्च
अत्र वतिव्याख्याने चोदयन्ति, पूर्ववदेव एकमनुमानमुक्तं स्यान्न त्रिविधम्, यतो न तावदनवगतव्याप्तिकं लिङ्गं गमकं भवति विशेषाणामनन्तत्वेन च तदन्वय- 15 व्यतिरेकयोर्दुरवगमत्वात् सर्वत्र सामान्येनैव व्याप्तिग्रहणम् । यच्चेत्थं व्याप्तिज्ञानं तत्तुल्यं त्रितयेऽपि । अतः सर्व पूर्ववदेव स्याद्वतेः सर्वत्र सम्भवात् ।
तदेतदयुक्तम् । अवान्तरविशेषस्य सुस्पष्टस्य भावात्, व्याप्तिपूर्वकमनुमानमित्येतावता यद्येकविधमुच्यते, तत् सत्यम् । एवम्प्रकारमेवेदम्, तस्मिन् सत्यपि तु साम्ये भेदान्तरसम्भवात् त्रैविध्यमस्य प्रतिपाद्यते। तथा हि धूमज्वलनयोः पूर्वं 20 प्रत्यक्षेण ग्रहणादिदानों तेनैव धूमेन स एवाग्निरनुमीयते इति पूर्ववदिदमनुमानमुच्यते यत् प्रत्यक्षपूर्वकमिति प्रसिद्धम् ।
ननु धूमान्तरेण वह्यन्तरानुमानं किं न प्रत्यक्षपूर्वकम् ? क एवमाह न पूर्ववदिति ? कथं तींदमुच्यते ? तेनैव धूमेनेति जात्यभिप्रायमेतदुच्यते न व्यक्त्यभिप्रायम्।
इति शब्दप्रयोगात् । तदभावे कथं वतिः। "तेन तुल्यं क्रिया चेद्वतिः” इति क्रियातुल्यत्वे वतेः स्मरणात् ।