________________
१९२
5
अथ देशान्तरे तरणिदर्शनं हेतुरुच्यते, तस्यापि गतिकार्यता पारम्पर्येण विद्यते एव, गत्या प्राप्तिः प्राप्त्या च तत्र दर्शनमिति । अथ देशान्तरे उपवने दर्शनं पक्षीकृत्य दर्शनत्वेन च दर्शनशब्दवाच्यत्वेन च वा तस्य गतिपूर्वकत्वमनुमीयते देशान्तरे दिवाकरदर्शनं गति पूर्वकं देशान्तरदर्शनत्वात् तच्छब्दवाच्यत्वाद्वा देवदत्तदेशान्तर - दर्शनवदिति, तथाऽपि पारम्पर्येण गतिकार्यता न निवर्त्तते एव । न हि दर्शनत्वं गोत्वादिवत् सामान्यमस्ति किन्तु भावप्रत्ययेनात्र दर्शनोत्पादिका शक्तिरुच्यते सा च 10 नातीन्द्रिया नित्या काचिद्, अपि तु स्वरूपसह्कारिस्वभावं वेति । दृश्यमानश्व देशान्तरप्राप्त्यात्मकमिति गतिकार्यम् । एवं दर्शनशब्दवाच्यत्वेऽपि हेतुकृते वक्तव्यम्, गत्या देशान्तरप्राप्तिर्जन्यते, तया तत्र दर्शनम्, तेन शब्दप्रयोगः, स एव भावप्रत्ययेनोक्तः । तस्मात् सर्वथा गतिकार्यत्वानपायाच्छेषवदेवेदमनुमानम् । तदेतद्भाष्यकारीयमुदाहरणमीदृशम् ।
15
20
[ द्वितीयम्
अपि च देशान्तरप्राप्तिर्देशान्तरसंयोगः, न च दशशतांशोर्देशान्तरेण शैलादिना संयोगः सम्भवति, नभसा तु भवन्नपि दिशा वा दुर्लक्ष्यः, प्रत्यक्षेतरवृत्तित्वात् पवनवनस्पतिसंयोगवत् मातृगर्भसंयोगवद्वा ।
25
न्यायमञ्जय
भावः ।
रूपाद्रसानुमानन्तु तस्माद्युक्तमुदाहृतम् ॥ अकार्यकरणप्राय हेतूनाश्व भदन्तकलहेऽस्माभिरुदाहरणविस्तरः ॥
प्रदर्शितः ।
प्रकारान्तरेणानुमान त्रैविध्यम्
एवं तावन्मतुव्याख्यया त्रैविध्यमनुमानस्य वर्णितम्, एतत्तु फल्गुप्रायमिव मन्यन्ते । नियमात्मक सम्बन्धबलादेव लिङ्गस्य गमकत्वमुक्तं न कार्यादिस्वरूपेण, तत् किमीदृशविध्येन दर्शितेनेति । वतिप्रत्ययमाश्रित्यान्यथा व्याचक्षते, पूर्ववदिति । अत्र सम्बन्धग्रहणकाले लिङ्गलिङ्गिनोः प्रत्यक्षतः स्वरूपमवधार्य पुनस्तादृशेनं व लिङ्गेन तादृगेव लिङ्गी गम्यते, तत्पूर्वेण तुल्यं वर्तते इति पूर्ववदनुमानम् यथा महानसे धूमाग्नी सहचरितौ दृष्ट्वा पुनः पर्वते धूमाग्न्यनुमानम् ।
देशान्तरेण शैलादिना संयोगः सम्भवतीति । अतिदूरवर्तित्वात् सूर्यस्येति
स एव भावप्रत्ययेनोक्तः । तत्र दर्शनशब्दप्रयोगे सति 'तच्छब्दवाच्योऽयम् '