________________
प्रमाणप्रकरणम्
१९१
आह्निकम् ] यत्तु सेतुभङ्गहिमविलयनादिनापि नदीपूरोपपत्तिदृष्टेति, तत्राप्युच्यते
आवर्त्तवर्त्तनाशालिविशालकलुषोदकः । कल्लोलविकटास्फालस्फुरत्फेनच्छटाञ्चितः ॥ वहदहलशैवालवनशाद्वलसंकुलः । नदीपूरविशेषोऽपि शक्येत न निवेदितुम् ॥ प्रमातुरपराधोऽयं विशेष यो न पश्यति । नानुमानस्य दोषोऽस्ति प्रमेयाव्यभिचारिणः॥ रोधोपघातसादृश्यव्यभिचारनिबन्धनम् । अनुमानाप्रमाणत्वमतो वक्तुमसाम्प्रतम् ॥ पारम्पर्येण वृष्टिश्च नदीपूरस्य कारणम् ।
पतद्घनपयोबिन्दुसंदोहस्पन्दनक्रमात् ॥ सामान्यतोदृष्टानुमानस्वरूपम्
सामान्यतोदृष्टन्तु यदकार्यकारणभूताल्लिङ्गात्तादृशस्यैव लिङ्गिनोऽनुमानम् । यथा कपित्थादौ रूपेण रसानुमानम् । रूपरसयोः समवायिकारणमेकं कपित्थादि द्रव्यं न तु तयोरन्योन्यं कार्यकारणभावः। शाक्यदृष्टयापि वर्तमानयोः क्षणयोरि- 15 तरेतरकार्यकारणता न सम्भवत्येव । धर्मिणश्च रूपवत्त्वेन रसवत्तानुमानाद असिद्धादिचोद्यानां पूर्ववदनवकाशो वक्तव्यः । यत्पुनर्भाष्यकारेण भास्करस्य देशान्तरप्राप्त्या गत्यनुमानमुदाहृतं तदयुक्तम्, देशान्तरप्राप्तेर्गतिकार्यत्वात् कार्येण कारणानुमानं शेषवदेवेदं स्यात् ।
आवर्तेति । आवर्तानां या वर्तनाः सम्पादनास्ताभिः शालि श्लाध्यशीलं यदुदकम् ।
रोधोपघातेत्यनेन पूर्वपक्षसूत्रं 'रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम्' इति सूचितम् । यदि नदीपूराद् वृष्टयनुमानं तदसौ रोधात् सेतुभङ्गादपि भवति; यदि पिपीलिकाण्डसञ्चाराद् भविष्यवृष्टयनुमानं तदसौ रथाद्युपघातादपि भवति; यदि च केकारवाद् मयूरानुमानं तदसौ पुरुषेणानुक्रियमाणोऽपि तत्सदृशो 25 भवतीति।