________________
न्यायमञ्ज
[ द्वितीयम्
मिति च विशेषणोपादानात् यत्र यत्र न तदानीमेव वृष्टिः प्रत्यक्षीभवति तदु दाहरणं भविष्यति । अपि च अनुपजातावयवक्रियतया अनाशङ्कयमान विनाशेऽन्त्यतन्तौ जातया क्रियया पटनिष्पत्त्यनुमाने क्रियमाणे पटप्रत्यक्षताकाले व्यवधान - सम्भवात् । तथा हि एकतस्तावत् अन्त्यतन्तौ क्रियावमर्शनम्, अविनाभावस्मरणम्, 5 परामर्शज्ञानम्, अनुमेयप्रतीतिरिति त्रिचतुराः क्षणाः । अन्यतस्तु क्रिया, क्रियातो विभागः, विभागात् पूर्वसंयोगनिवृत्तिः, तत उत्तरसंयोगोत्पादः, ततः पटनिष्पत्तिः, निष्पन्न पटे क्षणान्तरे रूपादिगुणारम्भः, रूपादिजन्मनि पटस्य समवायिकारणत्वात् कारणस्य कार्यादवश्यं पूर्वकालभावित्वम्, अतो निष्पन्नोऽपि नूनमेकस्मिन् क्षणे नीरूपः पटो भवतीति न तदैव प्रत्यक्षः, ततः क्षणान्तरे रूपोत्पादाद् रूपवद् 10 द्रव्यमिन्द्रियसन्निकर्षात् प्रत्यक्षं भविष्यतीत्यतिनहव एते क्षणाः, अतो न कार्यप्रत्यक्षत्वम् । नापि विधुरप्रत्ययादिना कार्यानुत्पत्तिरनुत्पन्नावयवक्रियात्वविशेषणोपादानेन तद्विनाशानाशङ्कनात्, क्रिपातश्चोत्तरोत्तरकार्याणामवश्यम्भावित्वात् ।
१९०
15
यदपि ' हेतुना यः समग्रेणेत्यादिना योग्यतानुमानं व्याख्यातम् तदप्यसाधु । स्वभावानुमानस्य निरस्तत्वात् । लोकश्च कारणादविकलात् कार्यमेव कल्पयति न योग्यतामित्यलं प्रसङ्गेन ।
शेषवदनुमानस्वरूप विचारः
शेषवदिति यत्र कार्येण कारणमनुमीयते यथा नदीपूरेणोपरितने देशे वृष्टिरिति । अत्रापि वृष्टिमदुपरितनदेश संसर्गलक्षणो नदीधर्मः तद्धर्मेणैव विशिष्टेन पूर्णतादिनानुमीयते वृष्टिमत्पृष्ठदेश संसृष्टेयं नदी, फेनिलकलुषत्वादिविशिष्ट20 पूरोपेतत्वात्, पूर्वोपलब्धैवं विधधुनीवत् । अयं देशो वा वृष्टिविशिष्ट देशान्तरसंसृष्टो विशिष्टन दीपूरवत्त्वेनानुमीयत इति प्राक्तनवैयधिकरण्यादिचोद्यचक्रस्येहापि नास्ति प्रसरः । फलतस्त्वियं वाचोयुक्तिः कार्येण कारणमनुमीयत इति । परमार्थतस्तु धर्मी धर्मवत्त्वेन धर्मवाननुमीयत इति स्थितिः । यदाह भट्टः
25
"
स एव चोभयात्मायं गम्यो गमक एव च । असिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः ॥ इति ।
क्रियावमर्शनमिति । उत्पन्नामन्त्यतन्तु क्रियां यदा अवमृशति 'अन्त्यतन्तुक्रियेयम्' इति तदा तदनन्तरमसकृत् पटोत्पत्तिदर्शनादविनाभावसम्बन्धस्मरणम् । धुनी नदी ।