________________
आह्निकम् ] प्रमाणप्रकरणम्
२८९ ग्रन्थज्ञो देवानाम्प्रियः । उत्पाद्यतेऽस्मादित्युत्पादो योग्यता कथ्यते । सा चात्रानुमेया। अत एव तस्य वस्तुनोऽनन्यत्वात् स्वभावानुमानमिदमिष्यते, स स्वभावोऽनुवणित इति।
अत्राहुः, सर्वमिदमविदितानुमानप्रयोगक्रमस्य दुर्मतेश्चोद्यम् । न कार्यमत्र पक्षीक्रियते, न सत्ता साध्यते, न व्यधिकरणो हेतुः प्रयुज्यते, अपि तु पयोधरा एव 5 धर्मिणोऽदूरकालभाविन्या वृष्टया तद्वन्तः साध्यन्ते विशिष्टोन्नतिरूपधर्मादियोगेनेति न पूर्वकथितदोषावसरः, यथा अग्निमानयं धूमः बहुलपाण्डुतादिधर्मयोगित्वान्महानसावधृतधूमवदिति, धूम एवाग्निमत्तयानुमीयते । एवं समनन्तरोत्पादितवृष्टयोऽमी जीमूताः सातिशयोन्नत्यादिधर्मयोगित्वात् पूर्वोपलब्धपर्जन्यवद् इति जलधरा एव भविष्यवृष्टिमत्तयानुमीयन्ते । यथाह भट्टः
तस्मा द्वर्मविशिष्टस्य धर्मिणः स्यात् प्रमेयता।
सा देशस्याग्नियुक्तस्य धूमस्यान्यश्च कल्पिता ॥ इति । यत्तु पूर्व कारणमुच्यते इति, तत् सत्यम् । पूर्वमस्यास्तीति पूर्ववत्, कारणगतमुन्नतत्वादिधर्मजातमुच्यते, तदेव लिङ्गमिति ग्रन्थदोषोऽपि न कश्चित् । न च कारणमात्रस्य हेतुत्वं ब्रूमो येनास्य विधुरप्रत्ययोपनिपातादिकृतो व्यभिचारः 15 स्यात् । अपि च विशिष्टमेव कारणं हेतुः, न च कारणविशेषों दुरवगमः।
गम्भीरगजितारम्भनिभिन्नगिरिगह्वराः। रोलम्बगवलव्यालतमालमलिनत्विषः ॥ त्वङ्गत्तटिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः। वष्टि व्यभिचरन्तीह नैवं प्रायः पयोमुचः ॥ अनभ्युपगमे चैवमनुमानस्य जीवितम् ।
न स्याद्धर्मविशेषाणामपि बोदधुमशक्तितः ॥ यदपि कार्यप्रत्यक्षत्वमाशङ्कितम् तदप्ययुक्तम् । न ह्यत्र वृष्टयनुमानसमय एव शिरसि सलिलकणाः पतन्तः पयोदमुक्ता दृश्यन्ते । परोक्षे लिङ्गिनि ज्ञानमनुमान
धूमस्यान्यैश्च कल्पिता सा प्रमेयता 'अग्निमानयं धूमः' इति । रोलम्बो भ्रमरः । गवलं महिषशृङ्गम् ।