________________
१८४
न्यायमञ्जयां
[द्वितीयम्
पूर्ववदनुमानविषये विचारः . पूर्ववदिति यत्र कारणेन कार्यमनुमीयते, यथा जलधरोन्नत्या भविष्यति वृष्टिरिति।
___ अत्र चोदयन्ति, पूर्व हि कारणमुच्यते, पूर्वमस्यास्तीति पूर्ववत् कार्य युक्तम्, 5 तेन कार्यात् कारणानुमानमिहोदाहर्त्तव्यम्, न कारणात् कार्यानुमानम् । न च
कारणेन कार्यमनुमातुमपि पार्यते । कार्यस्य तावत् पक्षत्वमयुक्तम्, सिद्धयसिद्धिविकल्पानुवृत्तेः । सिद्धे हि कार्ये किमन्यदनुमेयम् । असिद्धे खपुष्पवन्न पक्षत्वम् । अपि चास्ति कार्यम् कारणस्यास्तित्वादिति व्यधिकरणो हेतुः, अनित्यः शब्दः
काकस्य काादितिवत् । सत्तायाञ्च साध्यायां भावधर्मस्य हेतोरसिद्धत्वम्, 10 अभावधर्मस्य विरुद्धत्वम्, उभयधर्मस्यानकान्तिकत्वमिति कथं साधयितुं शक्यते ? तदुक्तम्,
नासिद्ध भावधर्मोऽस्ति व्यभिचार्यभयाश्रयः । ___धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ॥ इति ।
न च कारणमात्रस्य हेतुत्वं युक्तम, विना च प्रतिवन्धादिना व्यभिचारसम्भ15 वात् । कारणविशेषश्च न कश्चि द्विपश्चितापि निश्चेतुं शक्यः, चलदचलविपुलवपुषामुत्पलदलमलीमसत्विषामपि पयोमुचाममुक्तपयसामुपरमदर्शनात् ।
यदि त्वन्त्यदशावति कारणं लिङ्गमिष्यते ।
व्याप्तिस्मरणवेलायां कार्यप्रत्यक्षता भवेत् ॥ ननु सौगतैरपि कारणात् कार्यानुमानमङ्गीकृतमेव ।
हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते। अर्थान्तरानपेक्षित्वात् स स्वभावोऽनुवणितः ॥ इति ।
भावधर्मस्य हेतोरसिद्धत्वमिति । यावत् तस्य सत्ता न सिद्धा तावत् धर्मो हेतुः कथं भावधर्मो भवेत् । अभावधर्मस्य विरुद्धत्वम्, न ह्यभावधर्मेण भावः साधयितुं शक्यते प्रत्युत तस्याभावसाधकत्वात् ।
हेतुना यः समग्रणेत्यस्योत्तरमर्धम् 'अर्थान्तरानपेक्षित्वात् स स्वभावोऽनुवर्णितः' इति ॥