________________
प्रमाणप्रकरणाम
१८७
आह्निकम् ] सूत्रस्थत्रिविधपदसार्थक्यम्
___ अन्ये पुनः उपमानाद्यतिव्याप्तिव्युदासाय त्रिविधग्रहणं व्याख्यातवन्तः । तत्पूर्वकमनुमानमित्युच्यमाने सति उपमानादौ प्रसङ्ग इति त्रिविधग्रहणम् । लिङ्ग वक्ष्यमाणकार्यादिभेदाद्वा त्रिविधम्, पक्षधर्मादिरूपत्रययोगाद्वा त्रिरूपं त्रिविधमुच्यते। लिङ्गे च त्रिविधे सति तदालम्बनज्ञानमुपचारात त्रिविधमभिधीयते । तेन प्रत्यक्ष- 5 पूर्वकं त्रिविधलिङ्गालम्बनज्ञानमनुमान मित्युक्ते सति नातिव्याप्तिः । पूर्ववदादिशब्दार्थविचारः ।
ननु पूर्ववदादिभिः शब्दः कार्यादिभेदवर्णनं ज्ञास्यामः । पक्षधर्मादिरूपत्रयन्तु कथमेभिः शब्दैः प्रतिपाद्यते इति ।
___ अत्राहुः, वादादिकथात्रयेऽपि पूर्वमुपादीयमानत्वात् पक्षः पूर्वशब्देनोच्यते, 40 सोऽस्यास्त्याश्रयत्वेनेति पूर्ववल्लिङ्गमित्येवमनेन पदेन पक्षधर्मत्वमुक्तं भवति । पक्षे उपयुक्ते सति शेषः सपक्षो भवति, सोऽस्यास्त्याश्रयत्वेनेति शेषवत्, एवमनेन सपक्षे वृत्तिरुक्ता भवति । सामान्यतोदृष्टमित्यनेन विपक्षाव्यावृत्तं लिङ्गमुच्यते । कथम् ? अकारप्रश्लेषात् सामान्यतोऽदृष्टमिति । तिष्ठतु तावद्विशेषः सामान्यतोऽपि न दृष्टम्, क्वेति पक्षसपक्षयोवृत्तेरुक्तत्वात् परिशेषाद्विपक्षे सामान्यतोऽपि न दृष्टमित्यव- 15 तिष्ठते । इत्थं त्रिरूपं लिङ्गमेभिः शब्दैरुक्तं भवति, तदालम्बनं ज्ञानमनुमानम् ।
तदेवं लक्षणे कश्चित् सर्वं सूत्रमयोजयत् ।
एवन्तु ख्यापितं न स्यात् सूत्रकारस्य कौशलम् ॥ किञ्च पञ्चलक्षणमिह शास्त्रेऽभ्युपगम्यत इति त्रिरूपे तस्मिन् वर्ण्यमाने कालात्ययापदिष्टप्रकरणसमयोः प्रसङ्गो न व्यावर्त्तते इति, तस्मात् तत्पूर्वकपदमेव 20 लक्षणप्रतिपादनार्थमनवद्यम् ।।
त्रिविधग्रहणं तस्य विभागप्रतिपादकम् । भेदाः पूर्ववदित्यादिग्रन्थेन कथितास्त्रयः॥ तत्पूर्वकपदोद्गीतनिर्मलन्यायलक्षणाः । परिम्लानादरोऽन्यत्र सूत्रकृद्वाक्यलाघवे ॥ विभागवचनात् सिद्धं त्रैविध्यं स्वगिरा भवेत् । तथा च सिद्धशब्दान्तलेष्वेवमटीटशत ॥