________________
१८६
न्यायमञ्जयां
[ द्वितीयम्
नन्देवं निरस्यतामतिव्याप्तिः, अव्याप्तिस्तु कथं निरसिष्यते, आगमादिपूर्वकाणामनुमानानामसङ्ग्रहात् । तेष्वपि मूलभूतं प्रत्यक्षमेव कारणमिति केचिदाहुः । यथोक्तम्
यत्राप्यनुमिताल्लिङ्गाल्लिङ्गिनि ग्रहणं भवेत् ।
तत्रापि मौलिकं लिङ्ग प्रत्यक्षादेव गम्यते ॥ इति। यद्वा प्राधान्याभिप्रायेण प्रत्यक्षपूर्वकत्वमुच्यते न नियमार्थमिति नाव्याप्तिः, तानीति वा पुनस्तावदवबोधाय विग्रहः कर्तव्यः, तानि प्रत्यक्षादीनि पूर्वं यस्येति । यद्यपि प्रत्यक्षमेव लक्ष्यत्वेन प्रस्तुतं तथापि व्यवच्छेद्यतयानुमानादीनामपि प्रकृतत्वं न वार्यते।
अत्र चोदयन्ति तदिति करणावमर्शो वा स्यात्, फलावमर्शो वा ? करणावम” इन्द्रियादिकरणपूर्वकं ज्ञानं तत्फलम्, तत्पूर्वकं चानुमानमिति पूर्वशब्दस्य द्विः पाठः स्यात्, स चाश्रुत्वा कल्पनीयः । फलावमर्श तु प्रत्यक्ष फलपूर्वकमनुमानमिति तत्पूर्वकशब्दस्य फलवचनस्यानुमानशब्देन करणवाचिना सह सामानाधिकरण्यं न
स्यात् तत्पूर्वकमनुमानमिति । प्रत्यक्षफलेन हि लिङ्गदर्शनेन परोक्षार्थप्रतिपत्तिरुप15 जन्यते, सा चानुमानफलं नानुमानमिति। उच्यते। उभयथाऽपि न दोषः । करणावमर्श
तावदिन्द्रियादिकरणपूर्वकं तत्फलं लिङ्गदर्शनं यत् तदेव परोक्षार्थप्रतिपत्तौ करणमनुमानमिति न द्विः पूर्वकशब्दस्य पाठ उपयुज्यते । फलेऽप्यवमृश्यमाने प्रत्यक्षफललिङ्गदर्शनपूर्वकं यदविनाभावस्मरणं तदनुमानं करणमेव, ततः परोक्षार्थप्रतिपत्तेः। यदुक्तं 'प्रत्युत्पन्नकारणजन्या स्मृतिरनुमानमिति स्पष्टमेव सामानाधिकरण्यम् । फले वा अनुमान शब्दं वर्णयिष्यामोऽनुमितिरनुमानमिति। यतः शब्दं वा अध्याहरिष्यामः, प्रत्यक्षफलपूर्वकं परोक्षार्थप्रतिपत्तिरूपं फलं यतो भवति तदनुमानमिति । अत्र हि प्रथमं लिङ्गदर्शनम्, ततः प्रतिबन्धस्मरणम्, ततः केषाञ्चिन्मते परामर्शज्ञानम् ततः साध्यार्थप्रतीतिः, ततःप्रत्यक्षलक्षणावसरवणितेन क्रमेण हेयादिज्ञानमितीयति
प्रतीतिकलापे यथोपपत्ति कार्यकारणभावो वक्तव्य इत्येवं तत्पूर्वकपदमेव केवल25 मनुमानलक्षणक्षममिति गुरवो वर्णयाञ्चक्रुः ।
20
यत्राप्यनुमितादिति । प्रभाभेदेनानुमिताद् देशान्तरप्राप्तिरूपाल्लिङ्गिनि सूर्यगत्यादौ । मौलिकम मूले भवं प्रभाभेदरूपम् ।