________________
प्रमाणप्रकरणम्
१८५
आह्निकम् ] अनुमानसूत्रे तत्पूर्वकपदार्थविचारः
अथेदानी सूत्रमनुसरामस्तत्पूर्वकमित्यादि । अनुमानमिति लक्ष्यनिर्देशः । तत्पूर्वकमिति लक्षणम् । तदिति सर्वनाम्ना प्रक्रान्तं प्रत्यक्षमवमृश्यते। तत् पूर्व कारणं यस्य तत्तत्पूर्वकम् । एतावत्युच्यमाने निर्णयोपमानादौ तत्पूर्व के प्रसङ्गो न व्यावर्त्तते तद्व्यावृत्तये द्विवचनान्तेन विग्रहः प्रदर्शयितव्यः। ते द्वे प्रत्यक्षे पूर्व 5 यस्येति । यदेकमविनाभावग्राहि प्रत्यक्षं व्याख्यातम्, यच्च द्वितीयं लिङ्गदर्शनम्, ते द्वे प्रत्यक्षे अनुमानस्यैव कारणं नोपमानादेः। तत्र प्रतिबन्धग्राहि प्रत्यक्षं स्मरणद्वारेण तत्कारणम्, लिङ्गदर्शनन्तु स्वत एव ।
ननु प्रत्यक्षरात्रस्य प्रकृतत्वात्, प्रकृतावमशित्वाच्च सर्वनाम्नः, कुतोऽयं विशेषप्रतिलाभः ? उच्यते । उदाहरणसाधर्म्यात् साध्यसाधनं हेतुरिति वक्ष्यते । 10 हेतुरेव चानुमानं यदिह लक्ष्यं निर्दिष्टम् । न चागृहीतमुदाहरणसाधर्म्य तद्वधर्म्य वा साध्यसाधनं भवतीति तद्ग्रहणोपायोऽपेक्षितव्यः । प्रत्यक्षव्यतिरिक्ततदवगमोपायपरिकल्पने चानवस्थादूषणमसकृदभिहितमिति प्रत्यक्षस्यैव तदुपायत्वम् । अतोऽनुमानकारणभूतप्रत्यक्षापेक्षया प्रत्यक्षमात्रप्रक्रमेऽपि सर्वनाम्ना तद्विशेष आक्षिप्यते यत् प्रतिबन्धग्राहि प्रत्यक्षं यच्च द्वितीयं लिङ्गदर्शनमिति। 15
ननु प्रत्यक्षविशेषद्वयपूर्वकत्वमनुमानाभासेष्वपि सव्यभिचारविरुद्धादिष सम्भवतीत्यतिव्याप्तिः । मैवम् । हेतुलक्षणेन साध्यसाधन ग्रहणेन तत्प्रतिक्षेपात् । प्रतिबन्धस्वरूपं हि तत्रैव निपुणमभिधास्यते। इह तु तद्ग्रहणोपायमात्रमुच्यते। सम्यक् प्रवृत्ते च प्रतिबन्धग्राहिणि प्रत्यक्ष व्याप्तिविप्लवाभावान्नानुमानाभासप्रसङ्गः। सामान्यलक्षणानुवादेन च विशेषलक्षणे वर्ण्यमाने तत एव प्रमाणाभासव्युदाससिद्धः, 20 केवलमिदानी समानजातीयोपमानादिव्यवच्छेदो वचनीय इति स एव तत्पूर्वकपदेनोपात्तः । अर्थोत्पन्नमव्यभिचारि व्यवसायात्मकमिति फलविशेषणानां सर्वप्रमाणेष्वनुवृत्तेः।
युगपच्च क्वचिन्नास्ति व्यापारः शब्दलिङ्गयोः ।
अतो नाव्यपदेश्यत्वविशेषणमिहार्थवत् ॥ द्वयोरपि च शब्दलिङ्गयोपिकत्वेन स्वरूपग्रहणापेक्षत्वाज ज्ञानायौगपद्येन युगपद् ग्रहणासम्भवात् ।
२४