SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १९ न्यायमञ्ज [द्वितीयम् तादृशा चानुमानेन पुंसोऽर्थमधिगच्छतः । नान्धेन तुल्यता हस्तस्पर्शानुमितवम॑ना ॥ यत्नेनानुमितो योऽर्थः कुशलैरनुमातृभिः । अभियोगशतेनापि सोऽन्यथा नोपपाद्यते ॥ 5 लोकायतैकदेशिमते केषाश्चिदनुमानानामप्रामाण्यं तत्खण्डनश्च सुशिक्षिततराः प्राहुः। द्विविधमनुमानम्, किञ्चिदुत्पन्नप्रतीति किञ्चिदुत्पाद्यप्रतीति । ईश्वराद्यनुमानन्तु उत्पाद्यप्रतीति। तत्र धूमानुमानादेः प्रामाण्यं केन नेष्यते। अतो हि साध्यं बुध्यन्ते तार्किकैरक्षता अपि ॥ यत्त्वात्मेश्वरसर्वज्ञपरलोकादिगोचरम् । अनुमानं न तस्येष्टं प्रामाण्यं तत्त्वदर्शिभिः॥ ऋजूनां जायते तस्मान्न तावदनुमेयधीः । यावत् कुटिलितं चेतो न तेषां विटतार्किकैः ॥ एवन्तु कथयद्भिस्तैः परं नास्तिक्यमात्मनः । ख्याप्यते स्म जडत्वं वा नानुमानाप्रमाणता ॥ न हि सम्बन्धग्रहणोपायवैचित्र्यादप्रमाणता भवितुमर्हति । आगमेनानुमानेन तर्कव्युत्पादनेन वा। प्रत्यक्षेण गृहीतो वा सम्बन्धो न विशिष्यते ॥ ईश्वराद्यनुमानानां तत्प्रसङ्ग सविस्तरम् । द्रढिमानञ्च वक्ष्याम इत्यलं बहुभाषितैः ॥ प्रमाणमुपगम्यतां तदनुमानमेवंविधरविप्लुतपराक्रमं भवदुदीरितैर्दूषणः । अनभ्युपगमे पुनविंगतचेष्टिताः प्राणिनो भवेयुरुपलोपमा इति हि पूर्वमावेदितम् ॥ ५७ सद्वितीयप्रयोगेण प्रत्यवतिष्ठते 'अस्तु तत्साध्यधर्माधिकरणत्वशून्यमिघटान्यतर। सद्वितीयो घटोऽनुत्पलत्वात् (?) कुड्यवत्' इत्यादिना। उत्पन्ना स्वत एव तर्काभ्यासनिरपेक्षेण प्रतीतिर्यतरतदुत्पन्नप्रतीति ।
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy