________________
आह्निकम् ]
पेक्षितव्यम्, सैवेयं पक्षधर्मतोच्यते । पक्षधर्मान्वयव्यतिरेकनिश्चये सत्यपि प्रत्यक्षागमविरोधेन, प्रतिपक्षोपनिपातेन वा न गमकत्वमिति तदपरं लक्षणद्वयमुपदिष्टम्, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वञ्चेति । तदेवमनुभवसिद्धत्वादनुमानस्वरूपमिव तस्य लक्षणमपि तान्त्रिकविरचितमवाचकं लक्षणं चेत् स्वयमनवद्यमावेद्यताम्, न तु तद्वेषेण लक्ष्यमप्यनुमानं निह्नोतुं युक्तम् ।
प्रमाण प्रकरणम्
यत्पुनरभाणि 'प्रमाणस्य गौणत्वादनुमानादर्थनिश्चयो दुर्लभ' इति तन्न बुद्धयामहे । न हि प्रमाणस्य किञ्चिद् गौणत्वमिह पश्यामः । पक्षधर्मादिपदानि यदि नाम व्याख्यातृभिगौणानि प्रयुक्तानि किमेतावता प्रमाणं गौणीभवेत् ? शब्दान्तरेण हि तल्लक्षणाभिधाने न कश्चिद् गौणतादिप्रमादः ।
यदपि 'अवस्थादेशकालानां भेदादि 'त्यभ्यधायि तदपि न भयावहम् सम्यगवधूतायां व्याप्त विप्लवाभावात् प्रमातुरेव तत्र तत्रापराधो नानुमानस्येति ।
यदप्यवादि 'विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनादि 'ति तदप्यसाधु, 10 साध्यस्य मत्वर्थस्य दर्शितत्वात् ।
सद्वितीयप्रयोगास्तु न भवन्ति प्रयोजकाः । उत्प्रेक्षामात्रमूलत्वाद्धेत्वाभासा भवन्ति ते ॥
इति वक्ष्यामः ।
raft व्याहारि 'विरुद्धानुमान विरोधयोः सर्वत्र सम्भवात् ' कुत्रचिच्च विरुद्धाव्यभिचारिण इष्टविघातकृतश्च सुलभत्वादिति, तदप्यालजालम्, प्रयोजकहेतौ 15 प्रयुक्ते सत्येवम्प्रायाणामनवकाशत्वात् ।
१८३
न विशेषविरुद्धश्च न चास्तीष्टविघातकृत् । at सुप्रतिबद्ध हि ताः सन्ति विडम्बनाः ॥
5
विरुद्धानुमानविरोधयोरिति । धर्मविशेषाणां विपर्ययहेतवोऽत्र विरुद्धाः, यथा यदि कार्यत्वाच्छन्दस्य पराश्रितत्वं सिद्धयति रूपादिषु तथादर्शनात् तदा तेषु तथादर्शनादेव नित्य सर्वगताश्रितत्वाभावोऽपि सिद्धय दिति । इष्टविघातकृत् पुनः साध्यस्यैव धर्मस्य विन्तेति विशेषः ।
सद्धितीयप्रयोगास्त्विति । अनित्यः शब्दः कृतकत्वाद घटवदिति प्रयुक्त परः
20
25