________________
१८२ न्यायमञ्ज
[द्वितीयम् मुच्यते यत् तस्मिन् सति भवनं ततो विना न भवनमिति भूयोदर्शनम् । तच्च तस्मिन् सति भवनमित्यन्वयमात्रपरिच्छेदादर्धगृहीतो नियमः स्यात्, ततो विना न भवनमित्यस्यार्थस्यापरिच्छेदादिति।
अपरे पुनः अनग्नित्वसामान्यमन्तरेणापि योगिप्रत्यक्षकल्पनामकुर्वन्त एव 5 मानसप्रत्यक्षगम्यमन्वयव्यतिरेकमाहुः। धूमाग्निसामान्ये तावत् सहचरिते उपलब्धे, त्तद्वत् तदभावावपि सहचरितावुपलभ्येते एव, धूमत्वसामानस्यानग्नौ जलादावदर्शनात् । सर्वगतत्वेऽपि सामान्यानां वृत्तिभेदो नियामक इति वक्ष्यते । यद्यपि चानग्नित्वाद्यभावसामान्यं नास्ति तथापि प्रतिषेध्याग्नित्वसामान्यानुगमसिद्धव तदभावानुगमग्रहणं सिध्यति, सकलव्यक्तिज्ञानमनङ्ग व्याप्तिनिश्चये।
भावसामान्ययोर्यद्वत् तथैव तदभावयोः । भावयोः साहचर्य यदन्वयं तत्प्रचक्षते ॥ व्यतिरेकन्तु मन्यन्ते साहित्यं तदभावयोः । साध्यसाधनभावस्तु भवेद यत्राप्यभावयोः ॥
तयोरेवावयस्तत्र व्यतिरेकस्तु भावयोः । 15 तदेवमभावान्वयवद् भावव्यतिरेकोऽपि प्रत्यक्षगम्यो भवत्येव।
इयानेव विशेषस्तु भावयोर्यादृशी ययोः ।
व्याप्यव्यापकता सैव व्यत्यस्ता तदभावयोः॥ अभावयोस्तु गम्यगमकभावे भावयोर्व्याप्तिव्यत्ययो द्रष्टव्यः । एवञ्च प्रतिषेध्यानुगमपूर्वकसामान्यभावद्वयानुगमप्रत्ययोपपत्तेरन्वयतद्व्यतिरेकनिश्चयेऽपि न 20 योगिप्रत्यक्षमुपयुज्यते, भावाभावसाहचर्यमवधार्य मनसा नियमज्ञानसिद्ध रित्यलं
निर्बन्धेन। अनुमानलक्षणे आक्षेपसमाधानम्
तस्मानियमवत् तद्ग्रहणोपायोऽप्यस्तीति सिद्धम् ।
गृहीते नियमे यावत्पुनः क्वचिद्धर्मिणि धूमादेलिङ्गस्य ग्रहणं न वृत्तं तावन्न 25 भवति लिङ्गिनोऽवगतिरिति सम्बन्धग्रहणकालापेक्षया द्वितीयं तल्लिङ्गदर्शनम
तयोरेवान्वयस्तत्रेति । यथा 'नास्त्यत्र धूमोऽग्न्यभावात्' इति यत्र यत्र अग्न्यभावस्तत्र तत्र धूमाभाव इत्यन्वयः । यत्र तु धूमस्तत्राग्निरिति व्यतिरेकः।