________________
आह्निकम् ]
यच्च विकल्पितम् 'अशक्यं तद्ग्रहणमिति', तत्र केचिदाचक्षते मानसं प्रत्यक्षं प्रतिबन्धग्राहीति । प्रत्यक्षानुपलम्भाभ्यामनल सहचरितमनग्नेश्व व्यावर्त्तमानं धूममुपलभ्य विभावसौ नियतो धूम इति मनसा प्रतिपद्यते ।
प्रमाणमकरणम्
मनश्च सर्वविषयं केन वा नाभ्युपेयते । असन्निहितमप्यर्थमवधारयितुं
क्षमम् ॥
नच सकल त्रिभुवन विवर निरुद्धधूमाग्निव्यक्तिसार्थ साक्षात्करणमुपयुज्यते, ज्दलनत्वादिसामान्यपुरःसरतया व्याप्तिग्रहणात् । यत्तूक्तं ' सामान्यं वास्तवं नास्तीति तच्छब्दार्थचिन्ताप्रसङ्गे प्रतिसमाधास्यते ।
अपरे पुनः योगिप्रत्यक्ष कल्पं यौक्तिकं सम्बन्धग्राहि प्रत्यक्षं प्रतिपेदिरे किल । धूमत्वाग्नित्वसामान्यपुरस्कारेण व्याप्यव्यापकयोरन्वयो नाम गृह्यताम् । व्यतिरेheraofग्नभ्यो धूमस्य ग्रहीतव्यः । अनग्नयश्चातिवितताः । न च तेष्वनग्नित्वं नाम सामान्यमस्ति । तेन समस्तत्रैलोक्यान्तर्गताग्न्यनग्निगतान्वयव्यतिरेकग्रा हिप्रत्यक्षव्यतिरेकेण न प्रतिबन्धोऽवधृतो भवेत् । अनवधृतश्च न प्रमाङ्गम् । अस्ति च प्रमेति युक्तं बलात् प्रतिबन्धग्राहकमेकस्मिन् क्षणे प्रत्यक्षमिदमशेषव्यक्तिविषयमसंवेद्यमानमपि कल्पितमिति यौक्तिकमुच्यते ।
अन्ये पुनः अत एव तत्कल्पनाभयाद् भूयोदर्शनपरिच्छिन्नसामान्यपुरःसरान्वयमनपेक्षितव्यतिरेक निश्चयमेव लिङ्गं गमकमभ्युपागमन् । यथोक्तम् 'भमत्वदृष्टिमात्रेण गमकाः सहचारिण' इति, अयमाशयः
भूयो दर्शन तस्तावदुदेति नियतोऽयमनेनेति
तिरीदृशी । सकलप्राणिसाक्षिका ॥
१८१
5
10
15
20
तावता च गमकत्वमौत्सगिकं सिध्यति ।
मीमांसकानन्तु विपक्षे दर्शनं बाधकप्रत्ययः । न च सोऽस्ति नाद्ययावदनग्नौ धूम दृष्ट: । अनुत्पन्नेऽपि बाधके तदाशङ्कनमयुक्तमित्युक्तं तैः । “दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिकेति" एत्तत्तु न चारु, व्यतिरेकनिश्चयमन्तरेण प्रतिवन्धग्रहणानुपपत्तेरित्युक्तत्वात् । ज्ञापककत्वाद्धि नियमः स्वग्रहणमपेक्षते, नियमश्चाय- 25
यौक्तिकम् युक्तिबलात् कल्यम् ।