________________
१८०
!
10
15
20
25
न्यायमञ्जय्य
तत्र वस्तुस्वभावोऽयमिति पादप्रसारिका । दृश्यते ह्यविनाभूतादर्थादर्थान्तरे मतिः ॥ अतो यद्दर्शनाद् यत्र प्रतीतिरुपजायते । तयोरस्त्यर्थयोः कश्चित् सम्बन्ध इति मन्महे || तदात्मतातदुत्पत्ती न श्रद्दधति तद्विदः । साहचर्यन्तु सम्बन्ध इति नो हृदयङ्गमम् । तस्मिन् सत्येव भवनं न विना भवनं ततः । अयमेवाविनाभावो नियमः सहचारिता ॥ fear नियमोsस्यास्मिन्निति चेदेवमुत्तरम् । तदात्मतादिपक्षेऽपि नैष प्रश्नो निवर्त्तते ॥ ज्वलनाज्जायते धूमो न जलादिति का गतिः । एवमेवैतदिति चेत् साहचर्येऽपि तत्समम् ॥ यद् यस्य यावान् विषयः स तावति निरूप्यते । वस्तुस्वभावभेदे तु न तस्य प्रभविष्णुता ॥ अव विषमो युक्तेर्यदुक्तं नियमाद् विना । नार्थादर्थान्तरे ज्ञानमतस्तस्य प्रकल्पनम् ॥
[ द्वितीयम्
ततः परन्तु 'नियमोऽप्येष किंकृत' इति न युक्तिः प्रभवति, तादात्म्यतदुत्पत्योरनुपपन्नत्वात् । अतो नियम एव विरच्यते ।
अनुमितिहेतस्वरूप विचारः
न च प्रतिभामात्रमानुमानिकी प्रमितिरिति वक्तुं युक्तम्, नियतात् कुलचिदेव वस्तुनि प्रतीतिदर्शनादित्युक्तत्वात् । नियमश्च यदि अगृहीत एव प्रतीत्यङ्ग भवेन्नारिकेलद्वीपनिवासिभिरपि धूमदर्शनात् कृशानुरनुमीयेत, नश्चैवमस्तीति नियमग्रहणमपेक्षणीयम् ।
यद् यस्य यावान् विषय इति । पूर्वोक्तमेव दृढयति यद् यस्माद्यस्य युक्त्यादेवान्नियमो विषयः स युक्तयात्मा तावदिष्टविषये निरूप्यते प्रवर्त्यते ।
न च प्रतिभामात्रमिति । बाह्यनिमित्तानियन्त्रिता प्रतिभासमाना सद्भूतार्थाकारा प्रज्ञा प्रतिभा ।