________________
आह्निकम् ]
अपि च
प्रमाण प्रकरणम्
अनुमानविरोधो वा यदि चेष्टविघातकृत् । विरुद्धाव्यभिचारो वा सर्वत्र सुलभोदयः ॥ अत एवानुमानानामपश्यन्तः प्रमाणताम् । तद्विस्त्रम्भनिषेधार्थमिदमाहुर्मनीषिणः ॥ हस्तस्पर्शादिनान्धेन विषमे पथि धावता । अनुमानप्रधानेन विनिपातो न दुर्लभः ॥
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्त रैरन्यै रन्यथैवोपपद्यते ॥
अनुमानलक्षणे आक्षेप निरासः
अत्राभिधीयते, किमयमनुमानस्वरूपाक्षेप एव क्रियते, उत तत्तत्तार्किको पलक्षिततल्लक्षणाक्षेप इति । तत्रानुमानस्वरूपश्वाशक्य निह्रवमेव सर्व लोकप्रसिद्धत्वात् । अबलाबालगोपालहालिकप्रमुखा अपि । बुध्यन्ते नियतादर्थादर्थान्तरम संशयम् ॥ अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा ।
लोकयात्रेति लोकाः स्युलिखिता इव निश्चलाः ॥
प्रत्यक्षदृष्टमपि पदार्थजातं तज्जातीयत्व लिङ्गव्यापारेण सुखसाधनम् इतरकारणमिति वा निश्चित्य तदुपाददते जहति वा लौकिकाः । अथाविचारितरमणीयतैव तत्त्वं न तु लक्षणनियमः शक्यक्रियस्तस्येति लक्षणाक्षपोऽयमुच्यते ? सोऽप्ययुक्तः,
यतः,
यं कचिदर्थमालोक्य यः कश्चिन्नावगम्यते । कश्विदेवाक्षिपत्यर्थमर्थः कश्चिदिति स्थितिः ॥
अनुमान विरोधो वा यदीति । यत्र बलीयसा दुर्बलस्य विषयोऽपह्रियते तत्रानुमानवि रोधव्यवहारः यत्र तूभयोः प्रयोगः समकक्षतया संशयापादकस्तत्र विरुद्धाव्यभिचारिता, यत्पुनः प्रयुक्तं सदभिमतं धर्मं विहन्ति तदिष्टविघातकृत् यथा 'चक्षुरादयः.. परार्थाः संघातत्वात्, शयनादिवत्' इत्यत्र शरीररूपसंघात परार्थत्वेन शयनादीनां दर्शनादिष्टासंहतरूपात्मार्थत्वासिद्ध रिष्टविघातकारित्वम् ।
१७६
5
10
15
20
25