________________
१७
न्यायमञ्जर्यों
[ द्वितीयम्
भवनप्यविनाभावः परिच्छेत्तं न शक्यते। जगत्त्रयगताशेषपदार्थालोचनाद् विना ॥ न प्रत्यक्षीकृता यावद् धूमाग्निव्यक्तयोऽखिलाः। तावत् स्यादपि धूमोऽसौ योऽनग्नेरिति शङ्कयते ॥ ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि भवादृशः। किं दिव्यचक्षुषामेषामनुमानप्रयोजनम् ॥ सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः। वास्तवं हि न सामान्यं नाम किञ्चन विद्यते ॥ भूयोदर्शनगम्यापि न व्याप्तिरवकल्पते। सहस्रशोऽपि तदृष्टे व्यभिचारावधारणात् । बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चितः। देशकालादिभेदेन दृश्यते पुनरन्यथा ॥ भूयो दृष्ट्वा च धूमोऽग्निसहचारीति गम्यताम् । अनग्नौ तु स नास्तीति न भूयोदर्शनाद् गतिः ॥ न चापि दृष्टिमात्रेण गमकाः सहचारिणः । तत्रैव नियतत्वं हि तदन्याभावपूर्वकम् ॥ नियमश्वानुमानाङ्ग गृहीतः प्रतिपद्यते । ग्रहणञ्चास्य नान्यत्र नास्तितानिश्चयं विना ॥ दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि । तदप्यसदनग्नौ हि धूमस्येष्टमदर्शनम् ॥ अनग्निश्च कियान सर्व जगज्ज्वलनजितम् । तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः ॥ तदेवं नियमाभावात् सति वा ज्ञप्त्यसम्भवात् । अनुमानप्रमाणत्वदुराशा परिमुच्यताम् ॥
. जातस्य, तथा वत्सदेशजातस्यानूपदेशप्रभवाच्छक्तिभेदः, वसन्तादिगृहीतस्य च
शरदाबृत्वन्तरोद्भूतात्।