________________
आह्निकम् ]
तथा चाहुः प्रमाणस्यागौणत्वादनुमानार्थनिश्चयो दुर्लभः । पक्षधर्मादिरूपं हि लिङ्गस्य बलाद् गौण्या वृत्त्या दर्शयितव्यम् । धर्मे हि साध्ये न हेतोः पक्षधर्मत्वम्, अग्निधर्मत्वाद् धूमस्य धर्मिणि साध्ये हेतोरनन्वयित्वम् । न हि यत्र धूमस्तत्र पर्वत इत्यन्वयः । द्वये तु साध्ये द्वयमपि नास्ति, न हि दहनमही प्रयोर्धर्मो धूमः । नाप्येवमन्वयः यत्र धूमस्तत्र पर्वताग्नी इति । धर्मविशिष्टे धर्मिणि साध्ये तदुभयमघटमानमेव, नाग्निविशिष्टधराधरधर्मतया धूमः प्रथममुपलब्धुं शक्यते, न चाप्येवमन्वयो यत्र धूमस्तत्राग्निमान् पर्वत इति । तस्मादवश्यं पक्षधर्मत्वान्वयव्यवहारसिद्धये धर्मविशिष्टे धर्मिणि रूढः पक्षशब्दस्तदेकदेशे धर्मिणि गौण्या वृत्त्या वर्णनीयः, अन्वयप्रदर्शनसमये च तदेकदेशे तथैव योजनेऽतिगौणलक्षणत्वादिन्द्रियार्थसन्निकर्षजत्वादिवदगौणलक्षणत्वाभावादनुमानमप्रमाणम् ।
अपि च
२३
प्रमाण प्रकरणम्
विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात् । तद्वतोऽनुपपन्नत्वाद् अनुमानकथा कुतः ॥ साहचर्ये च सम्बन्ध विस्त्रम्भ इति मुग्धता । शतकृत्वोऽपि तद्दृष्टौ व्यभिचारस्य सम्भवात् ॥
देशकालदशाभेदविचित्रात्मसु वस्तुषु । अविनाभावनियमो न शक्या वस्तुमाह च ॥
अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥
प्रमाणस्यागौणत्वादिति । प्रमाणं प्रत्यक्षादि अगौणम्, उपचारानाश्रयणेन तल्लक्षणपदानां व्याख्यानात् ।
सामान्ये सिद्धसाधनादिति । व्याप्तिग्रहणसमय एव धूममात्रस्याग्निमात्रेण व्याप्तिग्रहणादत्रापि धूममात्रमग्निमात्रेण व्याप्तं गृहीतमेव इति स्मृतिमात्रमिदानीं न त्वपूर्वं किञ्चिदित्यर्थः ।
१७७
5
ご
10
5
20
es
अवस्था देशकालानामिति । गुडुच्यादेरभिनवजातस्यान्या शक्तिरन्या चिरू 45