________________
१७६
न्यायमञ्जयां
[ द्वितीयम् विशिष्ट इति । एवं चत्वारोऽग्नयः प्रत्येक चतुर्धा भिद्यमानाः षोडश भवन्ति । तत्रते पञ्चदश पक्षाः । तत्र प्रथमः पक्षः सर्वोऽग्निरग्निमात्र सर्वत्र यत्र कचन विद्यते' इति सिद्धसाध्यतया इष्टम्, विनाऽपि धूमदर्शनमस्यार्थस्य लाभादिति, अत्र हि सर्वशब्दः प्रकृतापेक्षः । 'अनिर्धारितः पूर्वोपलब्ध इहोपलभ्यमानश्च यः स सर्वः सर्वस्मिन्ननिर्धारिते देशे पूर्वत्रेह भवत्येव' इति द्वितोये तृतीये चतुर्थे प्रत्यक्षादिविरोधः; न हि सर्वोऽग्निः शशशृङ्गवदनिर्धारित एकस्मिन् देशे, पूर्वानुभूते रसवत्याख्ये, समुपलभ्यमाने चाद्रौ सम्भवति । पञ्चमः प्रत्यक्षविरुद्धः, 'अनिर्धारितोऽग्निः सर्वत्र देशे विद्यते' इति । न ह्यनिर्धारितस्य कस्यचिदग्नेरव्यापकत्वात् सर्वत्रावस्थानसम्भवः, रसवत्यादौ च निर्धारितस्यापि दर्शनात् । षष्ठे च 'अनिर्धारितोऽग्निरनिर्धारितदेशे विद्यते' इति सिद्धसाध्यतयैव कस्यचिदग्नेरवश्यं क्वचिद्देशे भावात् । 'अनिर्धारितोऽग्निः पूर्वत्र रसवत्यां विद्यते' इति सप्तमे तथा 'अनिर्धारितोऽग्निरिह पर्वते विद्यते' इति अष्टमे च प्रत्यक्षविरोधः, उभयत्र निर्धारितस्य दर्शनात् । 'पूर्वोऽग्निः सर्वत्र विद्यते' इति नवमेऽपि प्रत्यक्षविरोध एव, तस्य तद्देशं प्रत्यागमनाभावादव्यापकत्वात् सर्वत्र वृत्त्यभावात् । तथा 'पूर्वोऽग्निरनिर्धारिते देशे विद्यते' इति दशमेऽपि प्राग्वत् प्रत्यक्षविरोध (व। पूर्वोऽग्निः पूर्वत्र विद्यते' इति एकादशे सिद्धसाध्यता, अवश्यं यस्तत्र स तत्र भवतीति । एतत् तु अचिरदृष्टाभिप्रायेणोक्तम्, न तु पूर्वोऽग्निरवश्यं सर्वदा वा तत्र सम्भवतीति । 'पूर्वोऽग्निरिहाद्रौ विद्यते' इति द्वादशे असर्वगतत्वात् तस्यान्यत्र वृत्त्यसम्भवात् प्रत्यक्षविरोधः। एवं 'शैलस्थोऽग्निः सर्वत्र विद्यते' इति त्रयोदशेऽपि द्वादशवत् प्रत्यक्षविरोध एव । स एव शैलस्थोऽग्निरनिर्धारिते क्वचिद्देशे विद्यते' इति चतुर्दशे स एव । ‘स एव पूर्वस्मिन् देशे विद्यते' इति च पञ्चदशे तस्याग्नेरसर्वगतत्वेनान्यत्र सञ्चाराभावात् प्रत्यक्षादिविरुद्धतैव।
तत्र देशविशेषावच्छेद इत्यादि। अयं भावः । स्वरूपेण गृहीतस्योत्पलादेर्नीलादि अवच्छेदकम् । न च देशग्रहणमन्तरेणाग्निग्रहणं समस्तीति देशग्रह उत्पलग्रह इव प्राक्पश्चादग्निग्रहो नीलत्वग्रहवदिति बलादायातमग्नेरेव विशेषणत्वम् । न ह्यगृहीत उत्पले तस्य नीलत्वसम्बन्धः प्रतिपादयितुं शक्यते । विशेष्यत्वेन हि ग्रहणं विशेषणग्रहणात् परतः, स्वरूपेण तु पूर्वमेवेति ।
२०