SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] प्रमाणप्रकरणम् १७५ साध्यानुमितिवेलायां न चास्ति नियमग्रहः । नियमग्रहकाले च न साध्यमनुमीयते ॥ तेन पूर्वगृहीतः सन्निदानी स्मृतिगोचरः॥ नियमः प्रतिपत्त्यङ्ग तथावगतिदर्शनात् । द्वितीयलिङ्गदर्शने सत्यपि नियमस्मरणमन्तरेण साध्यप्रमितेरनुत्पादात्। 5 यत्रापि विषयेऽभ्यस्ते नैव सञ्चत्यते स्मृतिः। तत्राप्यनेन न्यायेन बलात् सा परिकल्प्यते ॥ अत एव केचन प्रत्युत्पन्न कारणजन्यां स्मृतिमेवानुमानमुक्तवन्तः। प्रत्युत्पन्नश्च कारणं कुत्रचिद्धर्मिपरोक्षस्यापि चेश्वरादृष्टेन्द्रियादेरनुमेयतां वक्ष्यामः। तस्माद् यथोचिताल्लिङ्गाद यथोक्तनियमस्मृतेः । यथोक्तलिङ्गिविज्ञानमनुमानमिति स्थितम् ॥ अनुमानप्रामाण्यपरीक्षायां पूर्वपक्षः ननु सत्यनुमानस्य प्रामाण्ये लक्षणाश्रयः । कार्यों विचारो न पुनः प्रामाण्यं तस्य युज्यते ॥ . 10 अत एवेति । अविनाभावस्मृति विनानुमेयप्रतीतेरनुत्पादाद्धेतोः। नन्वविना- 15 भावसम्बन्धस्मरणस्यानुमानत्वे केवलसंस्कारजन्यस्यापि हेतुत्वप्रसङ्ग इत्याशवयाहप्रत्युत्पन्नकारणेति । प्रत्युत्पन्नं वर्तमानम् । धूमस्य सन्निहितस्य' दर्शनाद् उत्पन्नाविनाभावस्मृतिः 'यत्र धूमस्तत्राग्निः' इत्येवंरूपा 'इहैव च धूमोऽतोऽत्रैवाग्निना भाव्यम्' इत्यस्यां प्रतीतौ पर्यवस्यति, न तु केवलसंस्कारजनितेत्यभिप्रायः। षोडश विकल्पा इति । तथा चोक्तम् सर्वोऽनिर्धारितः पूर्वः शैलस्थोऽग्निश्चतुर्विधः । प्रत्येकं साध्यते सर्वपूर्वानिर्धारिताद्रिभिः ॥ १. अतोऽनन्तरं ग्रन्थिभङ्गधृतप्रतीकद्वयोपजीवका। षोडशविकल्पा इति तत्र देशविशेषावच्छेद' इत्यादि च ग्रन्थपंक्तिर्न दृश्यते ।
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy