SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ गिरिसुतया गौर्या क्व असञ्जि सङ्गश्चक्रे ? हरे शङ्करे। महान्तः कस्मिन् यत्नं कुर्वन्ति ? सारे प्रधाने वस्तुनि। चौर्यं चौरिका निगदति- एकस्यां दिशि तिग्मा-तीक्ष्णा धारा एकदितिग्मधारा, अथवा एकदिक् एकदिक्का तीक्ष्णधारा क्व? उत्तरम् - हे चुरे! चौर्य ! क्षुरे नापितोपकरणे। करभाः उष्ट्राः कस्मिन् दृष्टे च पुनः क्व सति रटन्ति ? भरेवाह्यद्रव्ये दृष्टे सति, तथा दरे भये सति। ___ वा पक्षान्तरे, पक्ष्मलाक्ष्या स्त्रिया उक्तः आभाषितः कश्चिन्नरः स्मरस्य-कामस्य शरनिकरैः-मार्गणगणैराकीर्णः-व्याप्तः कायो यस्य सः स्मरशरनिकराकीर्णकायः सन् सदेश्यान् समीपस्थान् वयस्यान् प्रति किं ब्रवीति? अस्योत्तरम्- कजाक्षी कमलनयना स्त्री वाचा वचनेन अस्मान् कर्मतापन्नान् ‘अहह' इत्याश्चर्ये सहसा सद्यः अचुक्षुभत् क्षोभितवती, 'अरे!' इति सदेश्यानामन्त्रणम्। ___ अत्र काव्यद्वयेन पादोसरजातौ षोडशदलकमलम्॥ अत्रान्त्यक्षरं कर्णिकायां लिखितं दलगताक्षररावर्त्यतेऽतो विपरीतमिति ॥ ५८॥ ५९॥ वा चा स्मा ho जलनिधिमध्ये गिरिमभिवीक्ष्य, क्षितिरिति विदन् किमाह विवादे?। स्निग्धस्मितमधुरं पश्यन्ती, हरति मनांसि मुनीनामपि का?॥६०॥ ॥नाचलोङ्गरसा॥ गतागतः॥ कल्पलतिकाटीकया विभूषितम् ४६
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy