SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ व्याख्याः- जलनिधिमध्ये समुद्रमध्ये गिरिं दृष्ट्वा 'इयं क्षितिः-भूमिः' इति विदन् जानन् कश्चिद् विवादे किमाह वक्ति? न अचलः पर्वतः, 'अङ्ग' इति कोमलामन्त्रणे रसा-पृथ्वी। स्निग्धस्मितेन-सस्नेहहसितेन मधुरं-मनोहरं स्निग्धस्मितमधुरं यथा भवति तथा पश्यन्ती मुनीनामपि मनांसि का हरति? उत्तरम्सारङ्गलोचना। सारङ्गा:- हरिणाः, तद्वल्लोचने यस्याः सा सारङ्गलोचनामृगाक्षीरामा॥ गतप्रत्यागतजातिः ॥ ६०॥ धर्मेण किं कुरुत काः क्व नु यूयमार्याः! ?, कीदृश्यहिंसनफलेन तनुः सदा स्यात् ?। पुंसां कलौ प्रतिकलं किल केन हानिः? कीदृग्व्यधायि युधि काऽर्जुनचापनादैः?॥ ६१॥ ॥ याम ता गवि, विगतामया, सारतादिना, नादिता रसा॥ मन्थानजातिः॥ व्याख्याः- हे आर्याः! जनाः! यूयं धर्मेण क काः किं कुरुत? वयं याम प्राप्नुवाम ता: लक्ष्मी: कर्मतापन्नाः, क्व? गवि देवलोके। अहिंसनफलेन अहिंसायाः फलेन तनुः कीदृशी स्यात्?विगतामया नीरोगा भवति। कलौ कलिकाले पुसां प्रतिकलं प्रतिक्षणं केन हानिः ? सारतादिना प्रधानत्वादिना। युधि सङ्ग्रामे अर्जुनचापनादैः गाण्डीवधनुष्टङ्कारैः का कीदृशी चक्रे? उत्तरम्- नादिता शब्दिताऽथवा नादिता नादयुक्ता रसा भूमिः, 'तारकादिभ्य इतच्' प्रत्यये नादिता॥ मन्थानजातिः॥ १. 'गतप्रत्यागतजातिः' इति न ३ । प्रश्रोत्तरैकषष्टिशतकाव्यम् ४७
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy