SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ स | या म | ता | ग वि कीदृशः स्यादविश्वास्यः स्निग्धबन्धुरपीह सन् ?। न स्थातव्यं च शब्दोऽयं प्रदोषं प्राह कीदृशः?॥ ६२॥ ॥ वितथवचनः॥ [ विषमजातिः ॥ व्याख्याः- इह जगति स्निग्धबन्धुरपि सन् कीदृशः अविश्वास्यः विश्वासानर्हः स्यात्? वितथम्-अलीकं वचनं यस्याऽसौ वितथवचनः। पक्षे, 'नस्थातव्यं च' इति शब्दः कीदृशः प्रदोषं रात्रिमुखवाचकं शब्दं ब्रूते ? उत्तरम्- वितथवचनः। तश्च थश्च वश्च चश्च नश्च तथवचनाः, विगताः तथवचना यत्र स तथा। 'न स्थातव्यं च' शब्दे तथापि वर्णविनाकृते 'सायम्' इति भवति ॥ विषमजातिः॥ ६२ ॥ नृणां का कीदृगिष्टा? वद सरसि बभुः के ? स्मरक्रीडितोष्ट्राः, साधुः श्रीशश्च सर्वे पृथगभिदधतो बोधनीयाः क्रमेण। कुर्वेऽहं ब्रह्मणे किं ? वदति मुनिविशेषोऽथ कीदृक् समग्रः?; स्यात् किं वा पङ्कजाक्षीमुखविमुखमना भुक्तभोगोऽभिदध्यात्॥६३॥ ॥सारामारमयतेनमनोनः॥ शृङ्खलाजाति: ॥ व्याख्या:- नृणां नराणां का कीदृगिष्टा ? सा लक्ष्मीः सारा प्रधाना। १. 'शृङ्खलाजातिः' इति न ३। कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy