________________
तथा त्वं वद- सरसि सरोवरे के बभुः शुशुभिरे ? उत्तरम् - रामाः सारसाख्याः पक्षिविशेषाः ।
,
स्मरश्च क्रीडितञ्च उष्ट्रश्च स्मरक्रीडितोष्ट्राः, तथा साधुः श्रिया ईश : श्रीशः श्रीपतिः, एते सर्वे पृथग् अभिदधतः जल्पन्तः क्रमेण बोधनीयाः सम्बोध्या: । तत्रोत्तरम् - हे मार! कन्दर्प !, हे रम! क्रीडित !, हे मय ! उष्ट्र !, हे यते ! साधो !, ता - लक्ष्मीः, तस्या इन: - स्वामी तेनः, तस्य सम्बोधनम् - हे तेन !
मुनिविशेषो वदति - अहं ब्रह्मणे किं कुर्वे ? त्वं नमनमस्कारं कुरु! हे मनो! मनुनामऋषे !
-
अथ समग्रः सम्पूर्णः कीदृग्( क् ) स्यात् ? नोनः न ऊन: । वा पक्षान्तरे, पङ्कजाक्षी युवती, तस्या मुखं, पाठान्तरे 'सुखम्' वा सुरतादि, तस्माद्विमुखं पराङ्मुखं मनो यस्य स तथा, ईदृश: कश्चिद्भुक्तभोगः किम् अभिदध्यात् ब्रूयात् ? उत्तरम् - सा रामा रमयते न मनो नः, 'सा- स्त्री नः - अस्माकं मन:- चितं न रमयते - मोहयति' इत्यर्थः॥ शृङ्खलाजातिः॥ ६३ ॥
सा रा मा र म य ते न म नो नः
स िस मदि
स्वजनः पृच्छति जैनै - रघस्य कः कुत्र कीदृशे कथित: ? । कथयत वैयाकरणाः! सूत्रं कात्यायनीयं किम् ? ॥ ६४ ॥ ॥ बन्धोधिकरणे ॥ त्रिः समस्तः ॥
व्याख्याः– स्वजनः पृच्छति - जैनैः कुत्र कीदृशे अघस्य पापस्य कः कथितः ? उत्तरम् - हे बन्धो ! स्वजन ! अधिकरणे
प्रश्नोत्तरैकषष्टिशतकाव्यम्
४९