SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ पापव्यापारे बन्धः कथितः। कीदृशेऽधिकरणे? अधिकं रणं यत्र तत्, तस्मिन् अधिकरणे। __ भो वैयाकरणा( णाः)! यूयं कथयत- कात्यायनीयं सूत्रं किम् ? उत्तरम्- 'बन्धोधिकरणे' [कातन्त्रव्या. ४/६/२५] इति॥ सौत्रजातौ त्रिः समस्तः॥ ६४॥ ब्रवीत्यविद्वान् गुरुरागतः को सावित्र्युमे किं कुरुतः सदैव ?। आशैशवात् कीदृगुरभ्रपोतः पुष्टिं च तुष्टिं च किलाप्नुवीत?॥ ६५॥ ॥ अविदूसरतः॥ [व्यस्तसमस्तजातिः] ॥ व्याख्या:- अविद्वान् ब्रवीति- सावित्री च उमा च सावित्र्युमे गुरुरागात् को प्रति किं कुरुतः? उत्तरम्- वेत्तीति वित्, न वित्(द्) अवित्, तस्य सम्बोधनम्- हे अवित् ! अज्ञ ! उश्च उश्च ऊ ब्रह्ममहेश्वरौ प्रति सरतः गच्छतः। पक्षे, आशैशवात् आबालकालादारभ्य कीदृग् उरभ्रपोतः उरभ्रबालः पुष्टिं च तुष्टिं च प्राप्नुवीत? उत्तरम्- अविदूसरतः। अवे:-गड्डरिकाया दूसं-दुग्धम्, तत्र रत:-आसक्तः अविदूसरतः॥ व्यस्तसमस्त-जाति:२॥ ६५॥ तन्वि! त्वं नेत्रतूणोद्गतमदनशराकारचञ्चत्कटाक्षलक्षीकृत्य स्मरान्सिपदि किमकरोः सुभ्र! तीक्ष्णैरभीक्ष्णम् ?। किं कुर्वाते भवाब्धिं सुमुनिवितरणादायकस्तावको द्राक् ?, श्रद्धालुः प्राप्तमन्त्राद्युचितविधिपरः प्रायशः कीदृशः स्यात् ?॥६६॥ ॥अविध्यंतरतः॥ [नामाख्यातजाति:]॥ 'अविज्ञ' इति १। 'व्यस्तसमस्तजातिः' इति न ३। कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy