________________
व्याख्याः - हे तन्वि! हे सुभ्र! त्वं नेत्र एव तूणौ- तूणीरौ, ताभ्याम् उद्गतानि-नि:सृतानि मदनशराकारा:- कामबाणसदृक्षाः चञ्चन्तःप्रसरन्तो ये कटाक्षा:-सविकारनेत्रावलोकनविशेषाः ते तथा, तैः स्मरान्-ि कामातुरान् जनान् लक्षीकृत्य-वेध्यीकृत्य किमकरोः? किं भूतैः नेत्रतूणोद्गतमदनशराकारचञ्चत्कटाक्षः? तीक्ष्णैः मनोभेदकैः। ततः सा प्राह- अहम् अविध्यं वेधितवती। 'अविध्यम्' इति 'व्यध ताडने' [सार.दि.पर.पृ. ३०८]; [पाणि. धातु. १२५८] इत्यस्य दैवादिक-स्यानद्यतन्यमिपि रूपम्।
तथा सुमुनिवितरणात् सुसाधुदानाद् दायकस्तावको दायकानुमोदको पाठान्तरे 'दायकश्रावकौ' द्राक् 'श्राक्' वा शीघ्र भवाब्धिं किं कुर्वाते ? उत्तरम्- तरतः पारं गच्छतः।
___ पक्षे, श्रद्धालुः आस्तिक्यवान् कश्चित् पुमान्, कीदृक्? प्राप्त:गुरुमुखाल्लब्धो यो मन्त्रादिः, तस्योचितः-योग्यो' यो विधिःसाधनोपायः२, तत्र पर:-प्रवणः प्राप्तमन्त्राधुचितविधिपरः प्रायशः प्रायेण कीदृशो भवति? उत्तरम्- अविधेरन्तः-विनाशः अविध्यन्तः, तत्र रतः अविध्यन्तरतः॥ नामाख्यातजाति: ॥६६॥ कीदृगनिष्टमदृष्टं नुः स्यादित्यक्षकीलिका ब्रूते। भणइ पिया ते पिययम! कीए कहिं५ अभिरमइ दिट्ठी॥ ६७॥
॥मुद्धेतुहरमणे॥ भाषाचित्रजातिः॥ व्याख्याः- अक्षकीलिका शकटचक्रनाभिमुखकीलिका इति 'योग्यम्' इति १। 'साधनोपायम्' इति १। 'नामाख्यातजातिः' इति न ३ । 'कीइ' इति १, २, ३। 'कहि' इति १, मु. प्रतौ च।
प्रश्नोत्तरैकषष्टिशतकाव्यम्
|
m»
3