________________
- ब्रूते। इति किम्? 'नुः पुरुषस्य अनिष्टम् अशुभं अदृष्टं कर्म कीदृशं
स्यात् ? अथवा अदृष्टं वह्निजलादिसमुद्भूतमकस्माद्भयं कीदृशं सद् अनिष्टम् अप्रियं भवति?' इति प्रश्ने उत्तरम्- मुद्धेतुहरम् अणे! हे अणे! अक्षकीलिके! मुदः-हर्षस्य हेतवो मुद्धेतवः, तान् हरतीति मुद्धेतुहरम्।
अथ प्राकृतेन प्रिया भणति- हे प्रियतम! ते तव दृष्टिः 'कीए'- त्ति कस्याः 'कहिंति कुत्र अभिरमते हृष्यति? भर्ता प्राहमुद्धे! मुग्धे ! तुह तव रमणे सुरतव्यापारे, जघने वा॥ भाषाचित्रजातिः ॥६७॥ कीदृग्जलधरसमयजरजनी? पथिकमनांसि किमकरोत् कस्मिन् ?। मधुरस्निग्धविदग्धालोकं स्त्रैणं कीदृग् भ्रमयति लोकम् ?॥ ६८॥
॥सजघनस्तननाभिनदध्वनि॥ पादोत्तरजातिः॥ व्याख्याः- जलधरसमयजरजनी वर्षाकालोद्भूतरात्रिः कीदृग्' सती पथिकमनांसि पान्थचित्तानि कस्मिन् किमकरोत्? उत्तरम्सजघनस्तनना अभिनद् अध्वनि। सज्जघनस्य-मेघस्य स्तननं-गर्जितं यत्र सा सजघनस्तनना अभिनत्-भेदितवती, क्व? अध्वनि-मार्गे। 'भिदिर विदारणे' [पाणि.धातु.१५३३] इत्यस्याऽनद्यतनीदिपि 'अभिनत्' इति रूपम्।
पक्षे, कीदृशं स्त्रैणं स्त्रीवृन्दं कर्तृ लोकं भ्रमयति मोहयति? किम्भूतं स्त्रैणम्? मधुरः-मनोहरः स्निग्धः-सरागो विदग्धश्च- चतुर आलोक:- दर्शनं यस्य तत्(द्) मधुरस्निग्धविदग्धालोकम्। उत्तरम्सजधनस्तननाभिनदध्वनि। जघनौ च स्तनौ च, नाभिरेव नदः-ह्रदः
१.
'कीदृशी' इति ३।
कल्पलतिकाटीकया विभूषितम्